पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७५
पोडशः सर्गः।


भारते कथा । वैधमुभयवस्त्रग्रन्थिबन्धनं तेन कृतमिति भावः । 'विदधत्' इति पाठे कुर्वन्सन्निति योजना ॥

ध्रुवावलोकाय तदुन्मुखभ्रुवा निर्दिश्य पत्याभिदधे विदर्भजा।
किमस्य न स्यादणिमाक्षिसाक्षिकस्तथापि तथ्यो महिमागमोदितः ॥ ३० ॥

 ध्रुवेति ॥ तस्य ध्रुवस्य दर्शनार्थमुन्मुखी भूर्यस्य तेन पत्या नलेन विदर्भजा निर्दिश्याज्ञाप्य ध्रुवस्यावलोकनार्थमभिधे उक्ता । तदुन्मुख्या भ्रुवा कृत्वा संज्ञाप्येति वा । ननु स्थूलस्य ध्रुवस्य स्वयंदर्शनयोग्यत्वात्सा स्वयमेव तं पश्येत् , तेन किमिति दर्शनं कारितमित्याह-अस्य ध्रुवस्याणिमा सूक्ष्मप्रमाणत्वमक्षिसाक्षिको नेत्रगोचरः किं न स्यात् , अपितु स्यादेव यद्यपि, तथापि स्वयंदर्शनयोग्यत्वेप्यागमोदितो महिमा वेदोक्तं गौरवं सत्यः। अस्त्विति शेषः । श्रुत्युक्तं हि प्रमाणमित्यर्थः । श्रुतिर्हि ततो वधूं 'सूर्यमुदीक्षस्व' इति ध्रुवे दर्शिते 'ध्रुवं पश्यामि प्रजां विन्देय' इति सा ब्रूयात् । तस्मात्स्वयं द्रष्टुं शक्यत्वेपि नल एवादर्शयदिति युक्तमित्यर्थः । वैधं ध्रुवदर्शनं कारितमिति भावः । एतत्सर्वं कविवचः। अथच यद्यप्यणुत्वं स्वयं प्रत्यक्षदृश्यं तथापि ज्योति शास्त्रोक्तं ध्रुवमण्डलस्य महापरिमाणत्वं सत्यमेव ॥

धवेन सादर्शि वधूररुन्धतीं सतीमिमां पश्य गतामिवाणुताम् ।
कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति[१] ॥ ३९ ॥

 धवेनेति ॥ सा वधूर्धवेन नलेनाणुतामतिसूक्ष्मत्वं गतामिमां सतीं पतिव्रतामरुन्धतीं त्वं पश्येत्युक्त्वादर्शि दर्शिता । तत्राणुत्वे उत्प्रेक्षते-वरणात्पूर्वमेव हृदि कृतस्य मनोरथमात्रेण हृदये कृतस्य भूपतेः कृते तृणीकृतस्वर्गपतेस्तृणवल्लाघवेन त्यक्त इन्द्रो येन एवंभूताज्जनादिव । लज्जयेति शेषः । अहं हि परिणीता सतीन्द्रं तृणप्रायमकरवम् , भैमी तु हृदि धारणमात्रादेवेति मत्तोपीयमेवाधिका सतीति भैम्याः सकाशालज्जयेव कृशामित्यर्थः । स्वतःकृशत्वमेवमुत्प्रेक्षितम् । भूपतेः, जनादिति शब्दद्वयं सामान्यवाच्यपि नलभैमीलक्षणे विशेषे पर्यवस्यति । वैधमरुन्धतीविलोकनं कारितमिति भावः। अदर्शि ण्यन्ताच्चिण् । 'अभिवादिदृशोः-' इति अणौ (कर्तुो) कर्मत्वम् । तस्य चाभिहितत्वाद्वितीयाभावः॥

प्रसूनता तत्करपल्लवस्थितैरुडुच्छविक्रेमविहारिभिः पथि ।
मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्द्युतिः ॥ ४० ॥

 प्रसूनतेति ॥ तस्या भैम्याः करयोरेव पल्लवयोः स्थितैर्वर्तमानैलाजैः प्रसूनता पुष्पत्वमभाजि प्राप्ता । पल्लवेषु च पुष्पाणि युक्तानि । तथा-अनया भैम्योज्झितैः करान्मुक्तैर्योम्नि विहरणशीलैः सद्भिः पथि कराग्र्यन्तरालरूपे मार्गे उडुच्छविर्नक्षत्रशोभा भेजे।


  1. 'इतः' इति सुखावबोधास्थपाठः।