पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७६
नैषधीयचरिते

 व्योम्नि नक्षत्राणि युक्तानि । तथा-अमराणां मुखेऽनलेऽग्नावनया हुतै रदावलेर्दन्तप. ङ्क्तेर्द्युतिः शोभा भेजे। मुखे च दन्तपङ्क्तिर्युक्ता । वैधो लाजहोमस्तया कृत इति [१]भावः॥

तया प्रतीष्टाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् ।
ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता॥४१॥

 तयेति ॥ तया भैम्या प्रतीष्टा करकुड्मलाभ्यां स्वीकृता आहुतिधूमपद्धतिर्हूयमानलाजादिद्रव्यसंवन्धिनी धूमपरम्परा कपोले मृगनाभितां कस्तूरीशोभां गता प्राप्ता । तत ऊर्ध्वं गच्छन्ती दृशोश्चक्षुषोरञ्जनतां ययौ प्राप । ततोऽप्यूर्ध्वं गच्छन्ती श्रुतौ कर्णयोस्तमाललीलां वतंसभूततमालदलसादृश्यं श्रिता । ततोऽप्यूर्ध्वतरं गच्छन्ती अलिके ललाटेऽलकायिता चूर्णकुन्तलवदाचरिता । तत्तुल्या जातेत्यर्थः । कपोले कस्तूरी, दृशोरञ्जनम् , श्रुतौ तमालम् , ललाटे चालका इति युक्तम् । वैधं धूमग्रहणं कृतमिति भावः। मृगनाभिशोभिनीति ‘कर्तर्युपमाने' इति णिनौ मृगनाभिशोभिनी तस्या भावस्तत्ता त्वतलोः-' इति पुंव[२]त् ॥

अपहृतः स्वेदभरः करे तयोस्रपाजुषोर्दानजलैर्मिलन्मुहुः।
दृशोरपि प्रस्रुतमस्रु सात्त्विकं घनैः समाधीयत धूमलङ्घनैः॥४२॥

 अपहृत इति ॥ त्रपाजुषोर्लज्जावतोस्तयोः करे वर्तमानः स्वेदभरः सात्त्विकधर्मजलसङ्घो दानजलैर्ब्राह्मणेभ्यो दक्षिणादानार्थमुत्सृष्टैः संकल्पजलैर्मुहुर्वारंवारं मिलन्संबन्धं प्राप्नुवन्सन् उपलपितः । दानजलयोगात्सात्त्विकः स्वेदोयमिति लोकेन न ज्ञात इत्यर्थः । करे मुहुर्मिलन्पुनःपुनरुद्भवन्दानजलैरपह्रत इति वा । तत्रापि कामविकारवशात्स्वेदं लोको ज्ञास्यतीति भिया वा । दृशोरपि प्रस्रुतं गलितं सात्त्विकं कामविकारजमस्नु धनैः सान्द्रैर्धूमलङ्घनैर्धूमाक्रमणैः कृत्वा समाधीयत परिहृतं ताभ्यामित्यर्थात् तैरेव कर्तृभिरपलपितं वा। परस्परसंस्पर्शात्तयोः स्वेदादयः सात्त्विका भावाः प्रवृत्ता इति [३] भावः॥

बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्त्वमवेक्ष्य तत्क्षणम् ।
जनेषु रोमाञ्चमितेषु मिश्रतां ययुस्तयोः कण्टककुड्मलश्रियः ॥ ४३ ॥

 बहूनीति ॥ बहूनि वसूनि दक्षिणां प्रयच्छतो दक्षिणात्वेन ददतो भीमस्य सत्त्वं दानशौण्डत्वमवेक्ष्य तत्क्षणं तस्मिन्नेव क्षण आश्चर्यातिशयाद्रोमाञ्चमितेषु प्राप्तेषु जनेषु



  1. 'अत्रैकस्य लाजद्रव्यस्य क्रमेण करपल्लवाद्यनेकाधारवृत्तिकथनात्पर्यायभेदस्तावत् , तदुपमेन(?) लाजानां प्रसूनदन्तशोभासादृश्यान्निदर्शनाभेदः, इत्यनयोरङ्गाङ्गिभावेन संकरः' इति जीवातुः
  2. 'अत्राप्येकस्यैव धूमस्य क्रमादनेकाधारसंबन्धपर्यायात्तदुपजीविनामुत्तरेषां यथायोगमुपमानिदर्शनाभ्यां पूर्ववत्संकरः' इति जीवातुः
  3. 'अत्र स्वेदास्रुणोः सहजयोरागन्तुकदानोदकधूमाभिभवाभ्यां तिरोधानान्मीलनभेदः' इति जीवातुः