पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७७
षोडशः सर्गः।


मध्ये तयोर्भैमीनलयोः कण्टककुड्मलश्रियः कण्टककलिकाशोभा मिश्रतामैक्यं ययुः प्रापुः । सात्त्विकोऽपि रोमाञ्चोऽअन्यजनवदाश्चर्यादयं जात इत्यपलपित इति भावः ॥

बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा।
न कम्पसंपतिमलुम्पदग्रतः स्थितोपि वह्निः समिधा समेधितः ॥

बभूवेति ॥ श्रुतिक्रियाया वेदविहितलाजहोमाग्निपरिभ्रमणादिकाया आरम्भस्य परम्परा एकस्मादनन्तरमन्यस्यारम्भः, तस्मादनन्तरमन्यस्य, एवमव्यवहितो य उत्तरोत्तरावस्तद्विषया त्वरा वेगिता तयोः सात्त्विकभावजनितस्याङ्गाचलनात्मकस्य स्तम्भस्य विजित्वरी जयनशीला न बभूव । तं नापललापेत्यर्थः । अवश्यापेक्षितायामपि कर्मवेगितायां सात्त्विकस्तम्भवशात्तौ किमपि कर्म शीघ्रं कर्तुं समर्थौ नाभूतामिति भावः । तथा-समिधा काष्ठैः समेधितः संवर्धितद्युतिरप्यग्रतः स्थितोऽपि तयोः कम्पसंपत्तिं सात्त्विकं कम्पबाहुल्यं नालुम्पन्न शमयति स्म । शीतजं हि कम्पं विशिष्टोऽग्निः शमयति, न तु सात्त्विकम् । तस्य तत्रासमर्थत्वादित्यर्थः । तयोरन्यसात्त्विकापलापेपि स्तम्भकम्पौ लोकैर्ज्ञातावेवेति भावः। 'अवर्ततास्तम्भ-' इति पाठे न स्तम्भविजित्वरीति नञ्समासः । अलुम्पत्, 'शे मुचादीनाम्' इति नु[१]म् ॥

दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां वि[२]धेः
महर्षिणेवाङ्गिरसेन [३] साङ्गता पुलोमजामुद्वहतः शतक्रतोः ॥ ४५ ॥

दमेति ॥ दमस्वसुः पाणिं गृह्णतोऽमुष्य नलस्य संबन्धिनो वैवाहिकस्य श्रौतस्य विधेः साङ्गता अङ्गसाहित्यं पुरोधसा संविधेतरां नितरां साकल्येन चक्रे । प्रधानमात्र नलेन कृतम् , अङ्गानि तु पुरोधसा कृतानीति भावः । कस्य केनेव-पुलोमजामुद्वहतः परिणयतः शतक्रतोः संबन्धिनो विधेः साङ्गता आङ्गिरसेन महर्षिणा बृहस्पतिनेव ॥

स कौतुकागारमगात्पुरंधिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः।
अधात्सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना॥४६॥

 स इति ॥ ततो वैवाहिकविधेरनन्तरं स नलः पुरंध्रिभिरन्तःपुराङ्गनाभिरीक्षितुं वधूवरचेष्टादिदर्शनार्थं सहस्ररन्ध्रीकृतं तृणकाष्ठादिरचितबहुच्छिद्रगवाक्षं वधूवरसंवेशार्थं रचितगृङ्गारवेदिकं कौतुकागारं कुतूहलावहं दूर्वायवाङ्कुरादिनवमङ्गलद्रव्यसहितं गृहमगाद्ययौ । यद्गृहं जिष्णुना जयशीलेनामुना नलेनाधिष्ठितं सद्विलोकितुं नेत्रसहस्रावकाशरन्ध्रधारिणा सहस्राक्षस्य तनुत्रेण कवचेन सह मित्रतां साम्यमधाद्बभार । तदपि जिष्णुनेन्द्रेणाधिष्ठीयते । खलूत्प्रेक्षायां निश्चये वा ॥


  1. 'अत्र कर्मत्वरासमिद्धवह्निरूपकारणसद्भावेपि स्तम्भकम्पनिवृत्तिरूपकार्यानुत्पत्तेविशेषोक्तिरलंकारः' इति जीवातुः
  2. 'विधिः' इति पाठे विधिः संविदधेतराम्' इत्यन्वयः' इति सुखावबोधा
  3. 'संगताम्' इति पाठे 'कीदृशीं शचीमू-संगतां सं सम्यक् गतं ज्ञानं यस्यास्तामुचितज्ञाम् ।' इति सुखावबोधा।