पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८०
नैषधीयचरिते

शून्यो गलः कण्ठो यस्य एवंभूतो न भासि । अजस्य गले स्तनौ तिष्ठतः, त्वं तु तादृक्शब्दोऽपि स्तनशून्य इति कारणान्न शोभसे । अथच-रज्जुरहितकण्ठो न भासीति रज्जुस्थाने हारं धत्ते स्मेत्युभयतो लम्बमानो हार एव गलस्तनस्थाने भवत्वित्यर्थः । ततोऽनन्तरं परा द्वितीया रज्जुबद्धारमेव धृत्वाजमिव तमाकृषत्कण्ठे बद्धा दूरं निनाय । अजो हि मिमेमे शब्दो रज्ज्वा कण्ठे बद्ध्वा कृष्यते इति परिहासः। अथच-रिक्तकण्ठो ग्रासरहितो न भासीति निजगुच्छं स्वहस्तस्थितं पल्लवस्तबकं गले मुखान्तः न्यधत्त नितरां बलाच्चिक्षेप, द्वितीया च दत्तपल्लवग्रासं छागमिव चकर्षेति परिहासः। अथचएवमस्मत्स्तुतिं कुर्वन् तुच्छगलो हाररहितकण्ठो न भासीति वदन्ती गले हारं परितोषवशाचिक्षेपेति वा । यद्वा-अस्मत्प्रेम्णा भवत्यौ मे प्रियतमे इति वदन् त्वं शून्यकण्ठो न भासि मयापि त्वं वरणीय इति मालास्थाने हारमेव चिक्षेप । परा च य(त)त्रैव धृत्वा परिहासमिषेण संभोगार्थमेव चकर्षेति भावः। मिमेमे इति परिहासपक्षे युवामिति बिन्दुच्युतकेन । एवं वदन्युवा तरुणश्छगल इति वा योज्यम् । अकृषत् लङ् ॥

नलाय वालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेर्पितात् ।
अहासि लोकैः सरटात्पटोज्झिनी भयेन जङ्घायतिलङ्घिरंहसः ॥ ५२ ॥

 नलायेति ॥ नलाय नलार्थं बालव्यजनं मयूरपिच्छतालवृन्तं चामरं वा विधुन्वती कम्पयन्ती नलसेवापरा काचित्सुन्दरी दमस्य दास्या निभृतं गुप्तं यथा तथा पश्चादागत्य पदे चरणसमीपेऽर्पितान्मुक्तात्सरटात्कृकलासाद्भयेन पटमुज्झत्येवंशीला त्यक्तवस्त्रा दिगम्बरीभूता सती लोकैरहासि हसिता। जनहासे हेतुरभूदित्यर्थः । किंभूतात्सरटात्-जङ्घाया आयतिर्दैर्घ्य तल्लङ्घयत्येवंशीलं रंहो वेगो यस्य तस्मात् । अत एव भयहेतोः । सरटस्योर्ध्वारोहणं जातिस्वभावः॥

पुरःस्थलाङ्गुलमदात्खला वृसीमुपाविशतत्र ऋजुर्वरद्विजः ।
पुनस्तदुत्थाप्य निजामतेर्वदाऽहसच्च पश्चात्कृतपुच्छतत्प्रदा॥५३॥

 पुर इति ॥ काचित्खला धूर्ता समागताय कस्सैचिद्विजाय पुरःस्थमग्रे स्थितं लाङ्गूलं पुच्छं यस्यां क्रियायां तद्यथा तथा कूर्माकारांबृसीमृषीणामासनमदाद्दत्तवती। वरः श्रेष्ठः। वरस्य नलस्य वा। द्विजस्तत्र तस्यांपुरःस्थलाङ्गूलायामेव वृस्यामुपाविशदुपविष्टः । यतः- ऋजुस्तस्याः कौटिल्यमजानानः। सा च खला निजामतेःस्वीयाज्ञानस्य आसनं मया भ्रान्त्याऽन्यथा स्थापितम् इति वदा । स्वाज्ञानं नाटयन्तीत्यर्थः। तं पुनरुत्थाप्य पश्चात्कृतं पुच्छं यस्याः सा एवंभूता चासौ सा च वृसी तां प्रददाति प्रदत्येवंभूता सत्यहसत्। उपविष्टस्योरुद्वयमूलान्तरे स्थितमासनपुच्छं शिश्नमिव भविष्यति इति बुद्ध्या मया पुरोलाङ्गुलमासनं क्षिप्तम् , अयं तु मदभिप्रायमजानानोऽचतुरः पशुतुल्यः । पशोश्च पश्चादेव पुच्छेन भवितव्यमिति ज्ञापयितुं परिहासबुद्ध्यैव तां पश्चात्पुच्छं ददानाऽहसदिति भावः । अज्ञया मयोपहासानर्हस्योपहासाय प्रवृत्तमिति केचित् । आसनस्थापनानभिज्ञाया निजायाः स्वसख्या अमतेर्वदेति वा ।'ऋषीणामासनं वृसी' इत्यमरः ॥