पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७००

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८१
षोडशः सर्गः।

स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा ।
परेण पश्चान्निभृतं न्यधापयद्ददर्श चादर्शतलं हसन्खलु ॥ ५४ ॥

 स्वयमिति ॥ कश्चित्खलः परिहासचतुरः स्वयं स्वेनैव कथाभिर्हसदूत्यादिवार्ताभिः स्थिरीकृतायाः कथाश्रवणप्रवणीकृताया वरपक्षसुभ्रुवो नलपक्षीयायाः सुन्दर्याः । वरस्य पक्षे पार्श्वे स्थिताया वा । पदयुग्ममन्तरा चरणद्वयमध्ये परेण स्वसखेन प्रयोज्येन निभृतं गुप्तं यथा तथा पश्चाद्भागेनादर्शतलं दर्पणं न्यधापयदस्थापयत् । हसन्सन् प्रतिबिम्बितोरुजघनकामसदनं तं दर्पणं ददर्श च । भगादिदर्शनादेव हासः। पश्चादनन्तरं ददर्शेति वा । पदयुग्मम् । 'अन्तरान्तरेण' इति द्वितीया ॥

अथोपचारोद्धुरचारुलोचना विलासनिर्वासितधैर्यसंपदः ।
स्मरस्य शिल्पं वरवर्गविक्रिया विलोककं लोकमहासयन्मुहुः॥५५॥

 अथेति ॥ अथ कामरहितकेवलपरिहासानन्तरं वरवर्गाणां नलपक्षीयराजसङ्घानां विक्रिया मनोविकारो याभ्यस्ताः । यासां दर्शनेन नलपक्षीयाणां कामविकारो भवति ता वराङ्गनाः विलोककं द्रष्टारं लोकं मुहुरहासयन् । तद्रूपादिदर्शनसमुत्पन्नकामविकारं वरलोकं दृष्ट्वा लोकोऽहसदिति भावः । कीदृश्यः-उपचारे कटाक्षक्षेपादिना स्वानुरागज्ञापके प्रीतिविलोकने विषये उद्धुराण्युत्सुकानि चारूण्यतिविशालानि चतुराणि लोचनानि यासां ताः। तथा-विलासैः कटाक्षविक्षेपादिभिः कृत्वा निर्वासितास्त्याजिता धीराणां विलासिनां धैर्यसंपदो याभिस्ताः । तथा-स्मरस्य शिल्पं कृतिरतिसुन्दर्यः। उपचारे परिवेषणादावुद्धुराश्च ताश्चारुनेत्राश्चेति वा ।उपचारोद्धुरचारुलोचनानां विलासैस्त्याजिता धैर्यसंपद्येन तस्य स्म़रस्य शिल्पं विलसितं कर्तृ वरवर्गविकारदर्शिनं लोकं मुहुरहासयदिति वा । स्वाशयज्ञापनोत्सुकानि चारूणि नेत्राणि यासु । तथा- विलासैः पूर्वोक्तैरेव त्याजिता धैर्यसंपद्याभिः, यासु वा । तथा-कामजनिता वरवर्गस्य विक्रिया विकाराः कर्त्र्यो विलोककं लोकं मुहुरहासयन्निति वा । इदानीं कामचेष्टापुरःसरं परिहासः प्रवृत्त इति भावः ॥

 तदेवाह-

तिरोवलद्वक्त्रसरोजनालया स्मिते स्मितं यत्खलु यूनि बालया।
तया तदीये हृदये निखाय तद्व्यधीयतासंमुखलक्ष्यवेधिता ॥ ५६ ॥

 तिर इति ॥ कस्मिंश्चिद्यूनि तरुणे स्मिते सानुरागं हसिते सति कयाचिद्बालया तिरो वक्रं यथा तथा वलद्वक्त्रसरोजनालया वलितः (वलन्) मुखकमलस्य दण्डो ग्रीवा यया (स्याः) एवंभूतया सत्या यत्स्मितमीषदहासि । तया बालया तदीये हृदये हसितुर्वक्षसि तत्स्मितमेव निखाय खनित्वा आरोप्यासंमुखस्य लक्ष्यस्य वेध्यस्य वेधिता वेधकता व्यधीयत कृता । खलूत्प्रेक्षे । पराङ्मुखलक्ष्यवेधकत्वं धनुर्विद्यायां निपुणस्यैव भवति । यः पराङ्मुखः संल्लक्ष्यं विध्यति । पराङ्मुख्यापि तस्मिन्नात्मानुरागो निवेशित इत्यर्थः ।