पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८५
षोडशः सर्गः।

किमिति न पपावित्यत आह-तत्राधरसंपृक्ते करपुटे धृते प्रतिविम्बितं पुरः स्फुरत्याविलसन्त्याः स्मरकार्मुकवद्भ्रुवौ यस्यास्तस्या मुखं चुचुम्ब। उदीतसंमदः सन्वा चुम्बितवान् । जले पीते प्रतिबिम्बासंभवात्पानार्थं गृहीते जले तस्या मुखप्रतिबिम्बे प्रतिबिम्बितनिजमुखचुम्बनदर्शनकौतूहलवशात्तस्या यावदवस्थानं तावन्न पपौ । गतायां तु प्रतिबिम्बाभावात्पपाविति भावः । पङ्क्तिस्थान्वे(न्ये)क्षणवञ्चनं यावन्न पपौ, तैरीक्षिते तु जलं पपौ । पुरः स्फुरत्या जलं ददत्या एव मुखमिति वा ॥

हरिन्मणेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः।
भृतं न शाकैः प्रवितीर्णमस्ति वस्त्विषेदमेवं हरितेति बोधिताः॥६६॥

हरिदिति ॥ हरिन्मणेर्नीलमणेर्भोजनार्थं भाजने पात्रेऽर्पिते पुरःस्थापिते सति पत्रावलीभ्रान्त्या शाकपूर्णत्वभ्रान्त्या वा किल स्फुटं प्रकोपं नितरां रोषं प्राप्ता वारयात्रिका वरपक्षीया राजानो भीमसंबन्धिभिर्लोकैरिति बोधिताः । इति किम्-इदं वो युष्मभ्यं प्रवितीर्णं पात्रं शाकैः पलाशादिवृक्षपलाशैर्वास्तूकादिश्यामव्यञ्जनैरेव वा न भृतं तद्रचितं पूर्णं वा । किंत्वोदनादियुक्तमपि हरिता नीलया त्विषा भृतम् , न पत्रावली, नापि शाकेत्येवं ज्ञापिताः । ततस्तुष्टा इत्यर्थः । वारयात्रिकाः वरयात्रा प्रयोजनमेषाम् , 'प्रयोजनम्' इति [१]ठक्॥

ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्नविलोकयन्मुखम् ।
स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक् ॥६७॥

ध्रुवमिति ॥ विनीतो ध्रुवमाचारवानिव स्मितपूर्ववाग्मुखं नविलोकयन्नपश्यन् युवा तस्या अङ्घ्रियुग्मस्यावनिमध्ये भूमिभागे बद्धदृग्योजितनेत्रः सन् पुरः स्फटिकनिवद्धभूमौ स्थितां वधूं किमप्यपृच्छत् । अग्रे स्फटिककुट्टिमप्रतिबिम्बिततद्भगदर्शनसंजातस्मितः पुनरपि भगदर्शनार्थमेव गोष्ठीमिषेण तां स्थिरीचकारेति भावः । अधोदर्शनार्थमेव मुखं न विलोकितम् । अयं श्लोकः क्वचि[२]त् ॥

अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमार्दवम् ।
रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः ॥ ६८ ॥

 अमी इति ॥ अमी जना रसात्स्वादविशेषानुरागादोदनमभुञ्जत । किंभूतम्- लसद्बाष्पं विद्यमानोष्माणमीषदुष्णम् । तथा --अस्त्रण्डितक्ष्चासावखिल:संपूर्णक्ष्च (तम्) । पाकेप्यविच्छिन्नतण्डुलमिति यावत् । अभग्नमखिलं स्वरूपं यस्येति वा । तथा - पाकसमये नवनीतक्षेपादियुक्त्तमसंलग्नसिक्थकभ् । तथा - अमुक्त्त्मत्यक्त्तं मार्दवं येन सुजातिशालिबीजत्वादतिकोमलम् । तथा - रसोत्तरं स्वादुबहुलम् । तथा - गौरं चन्द्रधव-


  1. ’अत्र कल्पितद्दश्यान्मरकतभजने पन्नभजनर:’ इति जीवातु:
  2. ’अत्र यून: स्त्रीसंभाष्णे पादावलोकनेन मुखावलोकनदिति (रस्करण) धर्मयोगादिनीतत्वोत्प्रेक्षा’ इति जीवातु: