पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८६
नैषधीयचरिते

 लम् । तथा-अपीवरं जीरकादिसुजातिशालिबीजत्वात्सूक्ष्ममदीर्घतण्डुलम् । अत एव-आमोदनं हर्षहेतुम् । परिमलबाहुल्याद्वा आमोदनम् । अणुत्वे चागलद्बाष्पत्वम् , मार्दवात्यागेऽन्योन्यं वियुक्तत्वम् , अन्तःकरणमार्दवे परस्परविरोध इति च विरोधाभासः॥

वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरश्चुम्बति सुन्दरे दृशा।
स्वयं किल स्रस्तमुरस्थमम्बरं गुरुस्तनी ह्रीणतरा पराददे ॥६९॥

 वय इति ॥ सुन्दरे जन्यजने दृशा वयोवशेन निर्गच्छदागच्छच्छैशवतारुण्यपारतन्त्र्येण स्तोकमीषद्विकस्वरावुल्लसितमण्डलौ स्तनौ यस्यास्तां वयःसंधौ वर्तमानां मुक्तां(ग्धां) तिरस्तिरो वक्रं यथा तथा(दृशा)चुम्बति पश्यति सति सानुरागकटाक्षमात्रेणापि चुम्बनजन्यं सुखमनुभवति । गुरुस्तनी तारुण्यभरपीवरदृढतरकुचा अपरान्या स्त्री तदनुरागाध्ह्रीणतरातिसलज्जा सती यथास्थानस्थितमपि स्वयमात्मनैव स्रस्तं स्थानच्युतं जातमिवोरःस्थमम्बरं हृदयावरणवस्त्रं बलाद्विगलितं कृत्वा पुनस्तदाच्छादनायाददेऽङ्गीचकार । मुग्धां प्रत्यनक्षरं हृदयावरणसंज्ञानं चकार । विदग्धस्त्रीरीतिरीदृशी। अथ च-त्वमिमामल्पस्तनीं मुग्धां त्वत्संभोगासहनां किं पश्यसि । किंतु पीनधनस्तनीं त्वत्संभोगक्षमां मां पश्येति स्वाशयज्ञापनायादृष्टमपि पीनघनस्तनयुग्ममदर्शयदिति भावः । ह्रीणतरा, 'तसिलादिषु-' इति पुंवद्भावः॥

यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिध्रुवं ततः ।
वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् ॥ ७० ॥

 यदिति ॥ सुरभिः कामधेनुर्गौर्वा । अथ च-सौरभ्ययुक्तः पदार्थः । समुद्भव उत्पत्तिविषये यस्यादिहेतुर्दुग्धारिद्वारा परम्परया मूलकारणं ततो ध्रुवं तस्मादिव सौरभ्यधर्मयुक्तकारणादिव यदाज्यं सुरभि भवेत्स्यात् 'कारणगुणा हि कार्ये समवयन्ति' इति सुरभि भवितुमर्हति । तदाज्यमेभ्यो जन्यजनेभ्यो वधूभिः प्रवितीर्य परिवेष्य पायसं क्षीरपक्वतण्डुलमन्नं तदोघकुल्यानां घृतप्रवाहरूपाणां कृत्रिमाल्पसरितां तटयोः सैकतं कृतम् । पूर्वं पायसं परिवेष्य तस्योपरि धाराप्रवाहरूपे घृते क्षिप्ते द्विधाभूय घृतमभितः स्थितं पायसं शुभ्रत्वाद्धृतकुल्यासैकतमिव शोभते स्मेति भावः । आज्यसौरभ्यबाहुल्यमुक्तम् । यदाज्यमित्येव पाठः॥

यदप्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते ।
अपि क्रतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै दधते सुधान्धसः ॥७१॥

 यदपीति ॥ यदपि यद्यपि वसुधालयैर्मनुष्यैः सुधामृतं न पीता तदपि तथापि सुधारसाज्ञानेऽपि अदः आज्यं ततोमृतादपि सकाशात्स्वादु मिष्टमित्यनुमीयते । यद्यस्मात्सुधान्धसोमृतान्ना देवा अपि कृतावुषर्बुधेनाग्निना दग्धगन्धिने विनाशितसौरभाय अप्यस्सै घृताय स्पृहामिच्छां दधते । यागे हि हुतं घृतं देवा भुञ्जते । यद्यमृतादधिक