अहरिति ॥ विटे कामुके रताय आवयोः संभोगं कर्तुमहः, निशा वेति उष्णकरघर्मोपक्षितं दिनं वा, शीतांशुकरशैत्योपलक्षिता रात्रिर्वा समय इति क्रमेण उष्णशीतयोरन्नयोरुपरि करार्पणादेव चेष्टितात्कामपि पृच्छति सति विदग्धा चतुरा तत्प्रश्नाशयं ज्ञात्वा ह्रिया उपलक्षिता अनक्षरमिङ्गितेनैव तन्निषेधिनी तयोर्दिननिशयोर्निषेधं कुर्वाणा संध्यावन्मधुरे रमणीयेऽधरे स्वीयौष्ठे अङ्गुलिं न्यधत्तास्थापयत्। अनभिमतमर्थं निषेधन्त्यः स्त्रियो मातः किमित्येवं जातमित्याद्यभिधायाधरेऽङ्गुलिं स्थापयन्तीति जातिः। किल प्रसिद्धम् । लोके चैवमेव प्रतीतिर्जाता, सा तु तन्निषेधव्याजेन दिने रात्रौ चानवसरः, संध्यैव रतसमय इत्यकथयदिति भावः । यद्वा-दिने सूर्यालोकात्, रात्रौ चन्द्रालोकात्, तद्द्वयमनुचितम् , किंतु सदान्धकारमलिना संध्यैव रन्तुं योग्येति भावः ॥
क्रमेण कूरं स्पृशतोष्मणः पदं सितां च शीतां चतुरेण वीक्षिता । |
क्रमेणेति ॥ अयं श्लोकः क्षेपकः । कूरं भक्तम् , सितां शर्कराम् । किमिदमनेनानुचितं क्रियत इत्यनौचितीचिन्तनेन विस्मिता किल विस्मितेव । अरुणिते। यावकेनेत्यर्थः । भावः स एव ॥
कियत्त्यजन्नोदनमानयन्कियत्करस्य पप्रच्छ गतागतेन याम् । |
कियदिति ॥ कृतसुरतकालनिर्णयः स एव युवा कियदल्पमोदनं पुरःस्थां तां वीक्ष्य त्यजन् पात्रे स्थापयन् , कियदोदनं स्वं प्रति पुनरानयन्सन्, करस्य भक्तपुरस्त्यागवशात्पुरोगमनेन, स्वं प्रति भक्तानयनवशादागमनेन च, क्रमेण त्वां प्रत्यहं किमेष्यामि, त्वं वा मां प्रति किमेष्यसीति यां पप्रच्छ । सा आननं नम्रं व्यधत्त लज्जया किल । किलेत्यलीके । लोकप्रतीतौ अनया लज्जया मुखं नम्रीकृतमिति । तत्त्वतस्तु मुखनम्रीकरणेनाहमागमिष्यामीति स्वं दर्शितवतीति भावः । तं वीक्ष्य मुखं नम्रीकृत्य स्वचरणौ पश्यन्ती त्वमेवागत्य मच्चरणयोः पतेति वा भावः । भोजनसमये भोक्ता कियन्तमोदनमग्रे विभज्य स्थापयति, कियन्तं दध्यादिना सह भोक्तुं गृह्णातीति जातिः। कियन्तं त्यजन्बहुत्वात्पुनर्ददानः, कियन्तं च पुनः पात्रं प्रत्यानयन्निति वा ॥
यथामिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे। |
यथेति ॥ वारयात्रिका यथा येन प्रकारेणाऽऽमिषे मांसेऽप्यमांसस्य माषाद्यन्नस्य भ्रमं जग्मुः, यथा येन प्रकारेण निरामिषे मांसलेशवर्जितेऽपि तेमनादौ रूपस्वादादिभिः आमिषमोहं मांसभ्रममूहिरे त[१]र्कितवन्तः, तथा तेन प्रकारेण विदग्धैः नितरां कुशलैः
- ↑ 'इदं तु 'ऊह वितर्के' इत्यस्य 'ऊहांचक्रिरे' इति प्रयोगादुपेक्ष्यम्' इति सुखावबोधा । तथा च 'वहन्तिस्म' इति जीवातुः, 'प्रापुः' इति सुखावबोधायां व्याख्यातम् ।