पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९०
नैषधीयचरिते

सूपकारैः कर्तृभिरेते वारयात्रिकाः परिकर्मभिः साधनद्रव्यैर्निर्मितं विचित्रमन्नं परिहस्य विहस्य पूर्वोक्तभ्रमनिमित्तपरिहासं भोजिताः॥

नखेन कृत्वाधरसंनिभां निभाद्युवा मृदुव्यञ्जनमांसफालिकाम् ।
ददंश दन्तैः प्रशशंस तद्रसं विहस्य पश्यन्परिवेषिकाधरम् ॥८२॥

 नखेनेति ॥ कश्चिद्युवा मृद्वीं व्यञ्जनमांसस्य फालिकां खण्डं नखेन कृत्वा निभाह्याजाधरसंनिभामोष्ठाकारां (द्वि[१]धा) कृत्वा, पूर्वमधरसदृशीमपि (नखेन द्विधा कृत्वा)मध्ये नखेन रेखाकरणान्नितरां मध्यस्थितरेखाधरसदृशीं वा कृत्वा, दन्तैर्ददंश । परिवेषिकाधरं मांसव्यञ्जनदायिन्या अधरं पश्यन्विहस्य एतादृशी स्वादुतरा मांसफालिका कदापि नोपभुक्तेत्यादिप्रकारैस्तस्याः फालिकाया रसं स्वादुतां प्रशशंसास्तावीच्च । स्वादुतरं त्वदीयाधरमेव दशामीति हसंस्तस्मिन्मांसखण्डे तदधरतामारोपयन्स्वाशयं तामज्ञापयदिति भावः॥

अनेकसंयोजनया तथाकृतेर्निकृत्य निष्पिष्य च तादृगर्जनात् ।
अमी कृताकालिकवस्तुविस्मयं जना बहु व्यञ्जनमभ्यवाहरन् ॥८३॥

 अनेकेति ॥ अमी जना वारयात्रिका बहु मूलकन्दपुष्पपत्रफलादिरूपं शाकादि व्यञ्जनमभ्यवाहरन्बुभुजिरे । किंभूतम्-अनेकेषां नानाविधमरीच्यादिद्रव्याणां संयोजनया संबन्धेन तथाकृतेर्वस्त्वस्यैव(स्येव) गन्धरसादिकरणात्तादृग्रसादिनिर्माणात्तद्यथातथा निकृत्य नितरां कर्तित्वा निष्पिष्य चूर्णीकृत्य च आकारसाम्यादिना तादृगर्जनात्तद्वस्त्वन्तरसादृश्यसंपादनाद्रूपान्तरगन्धान्तरादिकरणाद्धेतोः कृत आकालिके असमयप्रभवे वस्तुनि विस्मय आश्चर्यं येन । क्रियाविशेषणं वा । तथा आकृतेराकारादिति वा । फलानि कर्तित्वा राजिकादध्यादिसंयोगाद्रसान्तरापत्तिः, तथा रूपान्तरापत्तिश्च । गोधूमादिपिष्टशर्करासंयोगाद्रसान्तरोत्पत्तिरित्यादिवैदग्ध्याद्भोक्तृणां विस्मयः । अधिवासनाविशेषाच्चाकालिकत्वभ्रमो युक्तः।

पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणः।
पुनः करे कर्तुमना गलन्तिकां हसात्सखीनां सहसा न्यवर्तत ॥८४॥

 पिपासुरिति ॥ वारिणाम्बुना सुहितेन तृप्तेन विटेन मुखं निरीक्ष्य अहं पिपासुः पातुमिच्छुरस्मीति बोधिता विज्ञापिता बालाबुद्धवक्रोक्त्याद्यभिप्रायविशेषाऽप्रौढा पुनरपि करे गलन्तिकां सुवर्णभाजनं कर्तुमना धर्तुमनाः सती तदाशयज्ञानामतिचतुराणां सखीनां हसाद्धास्याद्धेतोः सहसा झटिति सुप्तप्रबुद्धवज्जलपायनारम्भसंभ्रमान्न्यवर्तत परावृत्ता । सहसा सस्मिता सतीति वा । कर्मान्तरपरित्यागेन सामान्येन पिपासुर-


  1. 'परिहास्य' इति पाठे 'हास्यं कारयित्वा' इत्यर्थः' इति सुखावबोधा । २-३-इदं च सुखावबोधासंमतं 'संनिभां युवा द्विधा मृदु-' इति मूलपाठं दृष्ट्वा कैश्चित्प्राज्ञैः प्रक्षिप्तमिति प्रतिभाति ।