पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
नैषधीयचरिते

'क्षारको जालकं क्लीबे कलिका कोरकः पुमान्' इत्यमरः । शरणे साधुरिति 'तत्र साधुः' इति यत् । अध्वगान् 'अन्तात्यन्ताध्व-' इति डः॥

विलासवापीतटवीचिवादनात्पिकालिगीतेः शिखिलास्यलाघवात् ।
वनेऽपि तौर्यत्रिकमारराध तं क्व भोगमाप्नोति न भाग्यभाग्जनः१०२

 विलासेति॥ तौर्यत्रिकं नृत्यगीतवाद्यरूपं कर्तृ वनेऽपि तं नलमारराध सेवते स्म । कस्मात्-विलासार्थं क्रीडार्थं वापी दीर्घिका तस्यास्तटे तीरे वीचिवादनात्तरङ्गनादात् । तथा पिकाः कोकिला अलिनो भ्रमरास्तेषां गीतेर्गानात् । पिकानामालिः पङ्क्तिर्वा । तथा शिखिनां मयूराणां लास्यं नृत्यं तस्य लाघवाच्चातुर्यात् । अत्रार्थान्तरं न्यसन्नाह-क्वेति, भाग्यभाग्दैवयुक्तो जनः पुरुषः क्व कस्मिन्स्थाने भोगं सुखं सुखसाधनं वा नाप्नोति, अपितु सर्वत्रापि प्राप्नोति । विरहिणस्तौर्यत्रिकं सुखाय न, तथापि मयूरादीनां सेवाव्यापारो दर्शितः। नलस्य तु न तत्स्वीकारः। भुज्यत इति भोग इति तेषां वास्तवी निरुक्तिरस्त्येव नलस्य सा तदा नास्तीति चेत् । माभूत् , तथापि भोग एव । यथा नीरागजनसमीपस्था युवतिर्युवतिरेव । आ खेदे । तौर्यत्रिकं तं पुरवद्वनेऽपि रराध हिंसितवान् । भाग्यभाक् शुभाशुभकर्मभाक् सुखदुःखान्यतरसाक्षात्कारलक्षणं भोगं कुत्र नाप्नोति, अपि तु सर्वत्रापि ।यो हि सुखी स स्थानान्तरेऽपि सुखं प्राप्नोति, यस्तु दुःखी स स्थानान्तरे गतोऽपि दुःख्येवेति वा । सुखिनस्तस्य वनेऽपि सुखप्रतिपादनं प्रसङ्गकृतम् । 'भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि' इति विश्वः। अलीतीन्नन्तः । इकारान्तत्वे ध्यन्तत्वात्पूर्वनिपातः स्यात् ।

तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् ।
स्वरामृतेनोपजगुश्च सारिकास्तथैव तत्पौरुषगायनीकृताः ॥१०३॥

 तदर्थमिति ॥ जनेन लोकेन तदर्थं नलस्तुत्यर्थमेवाध्याप्य पाठयित्वा तद्वने नलोद्याने विमुक्ताः पटवः स्फुटवाचः शुकास्तं नलमस्तुवन् । तथैव तेनैव प्रकारेण तद्विमुक्ताः स्फुटवाचः सारिका अपि स्वरामृतेन तं नलमुपजगुस्तुष्टुवुः । किंभूताः-तस्य पौरुषं पराक्रमः तस्य गायना गायन्यश्च कृता गायनीकृताः । जनेनेति शेषः । उभयोर्विशेषणम् । सारिकाणामेव वा। अनेन स्तुतिविरदावलीपाठकाः सूचिताः । अध्याप्येति 'क्रीङ्जीनां णौ' इत्यात्वम् । गायनीत्यत्र ‘ण्युट् च' इति ण्युट् । ततश्च्विः ॥

इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च ।
अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥ १०४ ॥


१ 'अत्र सापह्नवोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः' इति जीवातुः। ३-'ल्युट्च' इति ल्युट् इति पाठान्तरमसंगतमेव । ४ 'अत्र जातिरलंकारः'

इति साहित्यविद्याधरी।