पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९१
षोडशः सर्गः ।

स्मीति वदन् अयमेतदीयाधरं पिपासुरस्तीत्येतदाशयमियं नाजानादिति कृताद्धास्यादियमपि तदाशयं ज्ञात्वा गलन्तिकां पुनरस्थापयदिति भावः । 'पूरणगुण-' इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधादेव वारिण इति षष्ठी ॥

युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् ।
चकार तन्नीविनिवेशिनं करं बभूव तच्च स्फुटकण्टकोत्करम् ॥८५॥

 युवेति ॥ अमत्रगं पात्रस्थं घृतं समादित्सुर्ग्रहीतुकामः कश्चिद्युवा तत्र घृते एणदृशः पुरःस्थाया मृगाक्ष्याः परिवेषिकाया अनुबिम्बनं प्रतिबिम्बं विलोक्य करं स्वहस्तं तस्य बिम्बस्य नीविषु भङ्गीनिबद्धनाभिचुम्बितविवस्त्रविच्छित्तिषु निवेशनशीलं चकार । तत्रास्थापयदित्यर्थः। तच्च तस्याः प्रतिबिम्बं स्फुटाः कण्टकोत्करा यस्मिन् । सरोमाञ्चमभूदित्यर्थः । स्वप्रतिबिम्बनीवीग्रन्थिविमोचनार्थं नाभिनीविसविधे स्पर्शकारिणस्तत्करस्य चेष्टां दृष्ट्वा तस्य स्वसंभोगवासनां ज्ञात्वा तदानीमेतस्मिन्ननुरागाद्रोमाञ्चिताभूत् , तादृश्याश्च प्रतिबिम्बितत्वात्प्रतिबिम्बमपि रोमाञ्चितमभूदिति भावः । द्वयोरप्यनुरागस्तुल्यो जात इति भावः॥

प्रलेहजस्नेहधृतानुबिम्बनां चुचुम्ब कोपि श्रितभोजनच्छलः ।
मुहुः परिस्पृश्य कराङ्गुलीमुखैस्ततो नु रक्तैः स्वमवापितैर्मुखम् ॥८६॥

 प्रलेहेति ॥ कोपि विटो लिह्यत इति लेहः, प्रकृष्टो लेहः प्रलेहः सूरणादिद्रव्ययुक्त आर्द्रकादिसंस्कृततक्रादिनिर्मितो द्रवद्रव्यविशेषस्तस्माज्जाते स्नेहे तैलादौ धृतमनुबिम्बनं यया । धृतं स्थितमनुबिम्बनं यस्या वा । एवंविधां पुरःस्थां सुन्दरीं श्रितं भोजनच्छलं येन एवंविधः सन् प्रतिबिम्बितां तामेव कराङ्गुलीनां मुखैरग्रैर्मुहुः परिस्पृश्य स्पृष्ट्वा चुचुम्ब । कीदृशैः - स्वमुखं समवापितैः प्रापितैः । तथा रक्तैः (अरुणैः) स्वभावात् , उष्णस्य तस्य स्पर्शाद्वा । ततो नु तस्मादनुरागात्किम्, अङ्गुल्यग्रै रक्तत्वादनुरागाच्चुम्बिता किमित्युत्प्रेक्षा । 'रिक्तैः' इति पाठे मुहुः परिस्पृश्य ततो नु तदनन्तरमेव रिक्तैः प्रलेहशून्यैः स्वमुखं प्रापितैः कराङ्गुलीमुखैश्चुचुम्बेत्यर्थः । प्रलेहे वटकादिनिक्षेपात्तैलादिबिन्दवस्तरन्ति तत्र जातं प्रतिबिम्बमङ्गुल्या स्पृशति प्रलेहचलनात्प्रतिबिम्बभङ्गभयादङ्गुल्यग्रैर्लेहनच्छलात्परम्परया चुम्बितवानिति भावः । तां प्रति स्वानुरागमदर्शयदिति च भावः ॥

अराधि यन्मीनमृगाजपत्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् ।
अशाकि लोकैः कुत एव जेमितुं न तत्तु संख्यातुमपि स्म शक्यते ॥८७॥

 अराधीति ॥ मीनेभ्यो मत्स्येभ्यः, चित्रकादिमृगेभ्यः, अजेभ्यश्छागेभ्यः, पत्रिभ्यस्तित्तिरिलावकादिभक्ष्यपक्षिभ्यश्च जातैः पलैर्मांसैर्मृदु स्वादु सुगन्धि पाकेन परिमलविशेषयुक्तं च यत्तेमनाख्यं व्यञ्जनं सूपकारैरराधि साधितम् । तद्बाहुल्याल्लोकैः संख्यातुमपि न शक्यते स्म । जेमितुं तु पुनः कुत एवाशाकि । अपि तु भोक्तुं शक्यं नाभूदेव । जेमितुम् 'जिमु अदने ॥