पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७११

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९२
नषधीयचरिते

कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किंचनकुञ्चितभ्रुवा ।
क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननयान्वकम्पि सः ॥८८॥

कृतेति ॥ किंचन किंचित्कुञ्चिते वक्रीकृत्योत्क्षिप्ते भुवौ यया कयाचिदिङ्गितैरञ्जलिबन्धादिचेष्टितैश्चाटुभिः प्रियवचनैश्च कृता अर्थना संभोगप्रार्थना येन तथाविधो यो विटः पुरा पूर्वं परासि निरस्तः, प्रसन्नाननया सरसदृष्टिव्यञ्जितप्रसादमुख्या तया भोजनलाीलया ग्रासमिषेण मुखेऽङ्गुलीः क्षिपन्नङ्गुलीसंस्पर्शन तां प्रति दीनत्वं सूचयन्स पुनरन्वकम्प्यनुगृहीतः । तदैन्यं दृष्ट्वा संभोगस्तयानुमत इति भावः

अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः ।
निपीय भृङ्गारकसङ्गि तत्र तैरवर्णि वारि प्रतिवारमीदृशम् ॥८९॥

 अकारीति ॥ यद्वारि प्रभञ्जनायजनादिवायुसंयोगाद्धेतोर्नीहारनिभं तुषारतुल्यमकारि, यश्चागुरुसारस्य कृष्णागुरोरुभिरधूपि धूपितम् , भृङ्गारके सुवर्णपानपात्रेसङ्गः स्थितिर्यस्यास्तीति, तद्वारि तत्र भोजनावसरे । भीमगृहे वा । निपीय नितरां पीत्वा तैर्जनैः प्रतिवारं पुनःपुनरीदृशं वक्ष्यमाणप्रकारेणावर्ण्यस्तावि । प्रतिवारं निपीयेति वा । 'अगुरुः' इत्येव पाठः । 'भृङ्गारः कनकालुका' इत्यमरः । अल्पत्वे कन् ।

 जलवर्णनमेवाह-

त्वया विधातर्यदकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् ।
वृथेदमारम्भि तु सर्वतोमुखस्तथोचितः कर्तुमिदंपिबस्तव ॥९०॥

 त्वयेति ॥ हे विधातस्त्वया चाम्बूदकं यदमृतसंज्ञं, यञ्च जीवनसंशमकारि कृतं तद्वयमपि साधूचितमेव कृतम् । अमृततुल्यरसत्वात् , प्राणधारणहेतुत्वाच्चान्वर्थत्वाद्युक्तमेवैतत्तस्य संज्ञाद्वयमित्यर्थः । तु पुनरिदं सर्वतोमुखसंशं वृथा आरम्भि कृतम् । अन्वर्थत्वाभावान्निरर्थकमेतत्कृतम् । यस्मादिदं जलं पिबतीदंपिबोऽस्मदादिः पुरुषस्तथा सर्वतः सर्वदिक्षु मुखानि यस्य एवंविधस्तव कर्तुमुचितः । अस्मदादेर्बहूनि मुखानि वैष्वप्यवयवेषु त्वं चेदकरिष्यः, तर्ह्यैस्मदादिरिदमातृप्ति पातुमशक्ष्यत्, नत्वेकेन मुखेनेति । नितरां शैत्यमाधुर्यादिगुणयुक्तमेतदिति भावः । चौ तुल्ययोगत्वद्योतकौ। ‘पयः कीलालममृतं जीवनम्' 'पुष्करं सर्वतोमुखम्' इत्यमरः । इदंपिबः 'पाघ्राध्मा-' इत्यादिना शः॥

सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते । सखि त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्ददतुः किलौदनम्


[१]

  1. अत्रैवकारस्य प्रयोजनं नावगतम् । अकारमध्यस्यापि नाम्नः श्रूयमाणत्वात् । अतएव-'अगरुसार-' इत्यपि पाठः साधीयान् ‘अगुवंगरु राजाहम्' इत्युक्तेः-इति सुखावबोधा