पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९४
नषधीयचरिते


तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता ।
इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता ॥ ९४ ॥

 तदन्तरिति ॥ तद्दधि निरीक्ष्य रसातिशयात्तृष्णया ग्रासवासनया चला चञ्चलाधरप्रान्तलेहिनी गलज्जला जिह्वा यस्य तस्य भावस्तत्ता तां बिभ्रता । तथा अन्तरन्तर्मध्ये मध्ये सुषिरस्य छिद्रस्य बिन्दुभिः करम्बितं मिश्रितं व्याप्तं तद्दधि कल्पयता कु- र्वता जगत्कृता इतस्ततः सर्वप्रदेशेभ्यः तद्दधि स्पष्टमचोरि प्रकटमपहृतम् । स्पष्टं संभावनायाम् । अपहृतमिवेत्यर्थः । अपहरन्कथं न दृष्ट इत्यत आह-यतो मायिना । अदृश्यतयापहृतमित्यर्थः। सफेनक्षीरस्य दध्याकारेण परिणामे दधनि छिद्राणि दृश्यन्ते। ब्रह्मणादृश्यतया दधनि वर्तमानः सारो भोक्तुमिच्छया गृहीतः । अन्यथा छिद्राणि कथं दृश्यन्ते । अन्येन ग्रहीतुं न शक्यते । तत्रोत्प्रेक्षा–येन निर्मितं तस्य ब्रह्मणोपि जिह्वाचाञ्चल्यनिर्माणात्स्वादुतमं दधीति ध्वन्यते ॥

ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सि[१]तयापि किं तया ।
इतीरिणे बिम्बफलं पलच्छलाददायि बिम्बाधरयारुचच्च तत् ॥९५॥

 ददासीति । बिम्बफलतुल्योऽधरो यस्यास्तया सुन्दर्या पलव्याजान्मांसव्याजाद्विम्बसंज्ञं फलं परिवेषितं मांसखण्डमेव बिम्बाकारं कृत्वा इतीरिणेऽधरचुम्बनवासनया भाषमाणाय विटायादायि दत्तम् । तद्बिम्बाकरं फलं तस्मै अरुचच्च । स्वादितमित्यर्थः । मदभिलाषं ज्ञात्वा स्वीकारपुरःसरं पलरूपबिम्बव्याजान्निजाधरदानमेवानया प्रतिज्ञातमिति संतुष्टोऽभूदिति भावः। इति किम्-हे बिम्बोष्ठि, यद्रुचेः प्रीतेरास्पदं यत्र वस्तुनि मम प्रीतिः, तन्मे मह्यं न ददासि । यद्वा-यद्रुचेः प्रीतेरास्पदं न भवति, तन्मां ददासि । तथा-मम यस्यां रागः प्रीतिर्नास्ति तया सितयापि शर्करयापि किम् । अपितु न किंचित्प्रयोजनम् । माधुर्यमर्यादया शर्करयापि प्रयोजनं नास्ति, अभिलाषाभावात् । अन्येन नास्तीति किं वाच्यमित्यपिना सूच्यते । अथ च-यत्र लौहित्यं नास्ति तया श्वेतया प्रकरणाच्छर्करयापि किम् । तस्माद्यत्र मेऽनुरागो रक्तिमकान्तिश्च, तन्मह्यं देहीति । 'कृतं तया' इति पाठे तया पूर्यताम् । 'फलच्छलात्' इति पाठे फलदानप्रसङ्गव्याजात् । बिम्बाकारोऽधरो यस्या इति 'सप्तम्युपमान-' इत्यादिनोत्तरपदलोपी समासः। अरुचत्, पुषादित्वादङ् । 'द्युद्भयो लुङि' इति परस्मैपदम् ॥

समं ययोरिङ्गितवान्वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् ।
अकारि नाकूतमवारि सा यया विदग्धयाऽरञ्जि तयैव भाववित ॥ ९६ ॥

 सममिति ॥ यो ययोर्वयस्ययोः सख्योर्विषये स्वाभिप्रायज्ञापनार्थं समं युगपदिङ्गितवान्भ्रूक्षेपादि चेष्टितवानभूत् । स तयोर्मध्य उपहृतं कृतं प्रतीङ्गितं तदभिलाषस्वीकारसूचकप्रतिचेष्टितं यया तामेकां विहाय स्थितः सन् तयैवारञ्जि द्वितीययैव प्रत्यनुरञ्जितः । तया कया-यया चतुरया विदग्धया आकूतं प्रतीङ्गितं नाकारि । प्रतीङ्गितं


  1. सितया कृतं तया' इति जीवातुसंमतः पाठः ।