पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९५
षोडशः सर्गः।

कुर्वाणा सैव सखी जनसमक्षमिङ्गितकरणमयुक्तमित्यवारि निषिद्धा । यतो भावविद्वैदग्ध्यस्य वेत्ता । द्वितीया तदिङ्गितदर्शनात्तस्मिन्ननुरागाल्लज्जित्वा प्रतीङ्गितं नाकरोत् । जनसमक्षमेतदनुचितमिति व्याजेन मत्प्रियं प्रतीयमिङ्गितं किमिति करोतीति सापन्येर्ष्यया च तां वारितवती इति तस्या वैदग्ध्यम् । स च तदीयगुप्तभावज्ञानाद्भाववित् । सहचरीसमक्षमिङ्गितं कुर्वाणेयमचतुरा; द्वितीया इङ्गितं नाकरोत् , तां च न्यवारयदितीयमेव चतुरा मय्यनुरक्ता चेति चतुरो द्वितीयस्यामेवानुरक्तोऽभूदिति भावः। विहाय स्थितः सन् इति योजना । अन्यथा हानस्य पुरुषः कर्ता, रञ्जनस्य स्त्री, इति भिन्नकर्तृकत्वात्क्वा न स्यादिति । अरञ्जि, ण्यन्ताच्चिण् ॥

सखाीं प्रति स्माह युवेङ्गितेक्षिणी क्रमेण तेऽयं क्षमते न दित्सुताम्
विलोम तव्द्यञ्जनमर्प्यते तयावरं किमस्मै न नितान्तमर्थिने॥९७॥

 सखीमिति ॥ यून इङ्गितं चेष्टामीक्षते एवंशीला काचित्स्वसखीं प्रत्याह स्म इत्यवोचत् । हे सखि, यस्मादयं क्रमेण परिपाट्या ते दित्सुतां त्वत्कर्तृकां व्यञ्जनस्य दातुमिच्छुतां न क्षमते । तस्मात्त्वया नितान्तमतिचञ्चलतयाऽर्थिने याचमानायास्मै यूने वरं श्रेष्ठमभीष्टं तत्तेमनादिव्यञ्जनं विलोम विपरीतं क्रमरहितं यथा तथा किं नार्प्यते दीयते । अपितु ललज्जिह्वायास्मै युगपत्क्षिप्यतामिति छलोक्तिः । अयमालिङ्गनचुम्बनादिबाहरतपरिपाट्या तव वराङ्गदानेच्छुतां न सहते । तस्मादतितरलतयार्थिने संभोगविलम्बमसहमानायास्मै वरं केवलं । श्रेष्ठं वा न विद्यते श्रेष्ठं वरं यस्मात्तदवरमतिश्रेष्ठं वा । अवरमधोदेशे वर्तमानं वा । रोमरहितं तद्भगलक्षणं व्यञ्जनमवयवः किमिति त्वया नार्प्यते । अपि त्वर्पयेत्युपहासः । अतिसंभोगानितरां तान्तं म्लानमिति व्यञ्जनविशेषणं वा । 'व्यञ्जनं लाञ्छनश्मश्रुनिष्टानावयवेष्वपि' इत्यमरः । नितरां तान्तमिति पक्षे 'अनुनासिकस्य क्वि-' इति [१]दीर्घः॥

समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वर्तुलयालयीकृतम् ।
अलंकृतं क्षीरवटैस्तदश्नतां रराज पाकार्पितगैरिकश्रिया ॥९८॥

 समाप्तीति ॥ क्षीरवटैः दुग्धमध्यक्षिप्तैर्माषसाधितैर्वटकाख्यैः पक्वान्नविशेषैः स्वसंवन्धादलंकृतं तत्पूर्वोक्तं वटकव्यतिरिक्तं व्यञ्जनं वर्तुलया वृत्ताकारया पाकेन तप्तस्नेहद्वारकाग्निसंयोगेनार्पितया निर्मितया गैरिकश्रिया शैलरक्तधातोरिव श्रिया वटकानामेव शोभया रराज । विशिष्टवटकसंबन्धाध्यञ्जनान्तरं रेजे इत्यर्थः । विशिष्टया श्रियोपलक्षितैः क्षीरवटैरलंकृतं सद्रेजे इति वा । क्षीरवटैः कर्तृभिः श्रिया कृत्वा अलंकृतं सद्रेजे इति वा । किमिव-अश्नतां भुञ्जानानां तेषां भुजिक्रियाविधेर्भोजनविधेः समाप्तेः वटकदर्शनमात्रेणान्यत्र रुच्यभावाव्यञ्जनान्तरविरतेः संबन्धिन्या लिप्या समाप्तिसूचिकया छकाररूपपुष्पिकारूपया आलयीकृतं आस्पदीकृतं दलोत्तरं श्रीतालादिपत्रमध्यमिव इत्युपमोत्प्रेक्षा वा । वृत्तया समाप्तिलिप्या श्रितं पाकेन बालकेनार्पितया गैरिकश्रिया-


  1. 'अत्रार्थान्तरस्यापि विवक्षितत्वाल्केवलप्रकृतश्लेषः' इति जीवातुः।