पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९७
पोडशः सर्गः।

कठिनीवार्पितेत्युत्प्रेक्षिता । इति वदताममूनि संख्यातुमिव व्याजेनासौ बहुतरा कठिन्यर्पितेति वा योज्यम् । कठिन्या च संख्यायते । एतद्यञ्जनम्, अमूनीति, ममेति, अमीषामिति चैकवचनबहुवचनानि जातिव्यक्तिविवक्षयेति ज्ञातव्यानि ॥

विदग्धबालेङ्गितगुप्तिचातुरीप्रवह्लिकोत्पाटनपाटवे हृदः।
निजस्य टीकां प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम्॥

 विदग्धेति ॥ कश्चित्कामुकः विदग्धायाश्चतुराया बालाया मुग्धाया इङ्गितगुप्तौ चेष्टितगोपनविषये चातुरी यत्कौशलं सैव दुर्ञेयत्वात्प्रवह्लिका गुप्ताभिप्रायः प्रबन्धविशेषस्तस्या उत्पाटने भेदने ज्ञानविषये यत्पाटवं सामर्थ्यं प्रावीण्यं तत्र विषये तदौचितीं विदग्धबालेङ्गितानामानुगुण्यं स्पृशद्भिः गतैस्तदनुरूपैराकूतशतैर्बहुभिरिङ्गितैः कृत्वा निजस्य हृदः स्वीयाभिप्रायस्य टीकां विवरणं प्रबबन्ध प्रकर्षेण कृतवान् । गुप्तान्यपि मदिङ्गितानि ज्ञातवान् , अतिचतुरोयं मय्यनुरक्तश्चेति तदनुगुणैः स्वीयचेष्टितैस्तां स्वाशयं बोधितवानिति भावः । बालाया अपि विदग्धसखीशिक्षया वैदग्ध्यादिङ्गितकरणम्, सहजमौग्ध्यात्सलज्जया तद्गोपनं च युक्तम् । विदग्धः कश्चन युवा, बाला च काचन, तयोरिङ्गितगुप्तिर्वा । यद्वा-विदग्धस्येङ्गितं बालायाश्च (गुप्तिः) अर्थादिङ्गितस्यैव । तयोर्विषये या चातुरी तत्र, प्रवह्निकोत्पाटनपाटवे विषये, तयोरौचितीं स्पृशद्भिः। अत्र द्वयोरपि भवतोराशयो मया ज्ञात इतीङ्गितैस्तज्ज्ञापनद्वारातिचतुरोऽहमेव त्वया भजनीय इति बालां प्रति स्वाशयं ज्ञापितवानिति भावः । अन्योपि विदग्धोऽतिगहनायाः प्रवह्लिकाया भेदने विषयेऽनेकैराशयैर्व्याख्यां करोति ॥

घृतप्लुते भोजनभाजने पुरः स्फुरत्पुरंघ्रिप्रतिबिम्बिताकृतेः ।
युवा निधायोरसि लड्डुकद्वयं नखैलिलेखाथ ममर्द निर्दयम् ॥ १०३ ॥

 धृतेति ॥ कश्चिद्युवा घृतप्लुत आज्यपूर्णे प्रसृतघृते वा भोजनभाजने पुरः स्फुरन्त्या विलसन्त्याः पुरन्ध्याः प्रतिविम्विता या आकृतिस्तस्या उरसि लड्डुकद्वयं मोदकयुगं निधाय नखैर्लिलेख । अथ पश्चानिर्दयं ममर्द । यदावयोः संयोगो भावी, तदैवं तव कुचावुपचरिष्यामीति, त्वत्कुचनखक्षतविमर्दैच्छुरस्मीति, वा स्वाशयं बोधितवानिति भावः। घृतेन प्लुतम् । घृतं प्लुतं यस्मिन्निति वा । 'वाहिताग्न्यादिषु' इति परनिपातः ॥

विलोकिते रागितरेण सस्मितं हियाथ वैमुख्यमिते सखीजने।
तदालिरानीय कुतोपि शार्करीं करे ददौ तस्य विहस्य पुत्रिकाम् ॥ १०४ ॥

 विलोकित इति ॥ रागितरेण केनचित्कामुकेन सखीरूपे जने सस्मितं विलोकिते सति अथ विलोकनानन्तरं ह्रिया वैमुख्यं पराड्युखत्वमिते गते सति तस्य सखीजनस्यालिः सखी कुतोपि कस्मादपि स्थानाच्छार्करीं शर्कराबन्धनिर्मितां पुत्रिकामानीय विहस्य वैमुख्यात्संदिहानस्य तस्य करे ददौ । अधरादिचुम्बनायाङ्गेषु शर्करातुल्यरसामेनामप्यहमेव दास्यामि । स्वहस्तस्थितामेनां जानीहीति संज्ञां चकारेति भावः । स.