पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९९
षोडशः सर्गः।


अतिवृत्तमाषसाधितवटरूपः कुङ्कुमोद्वर्तनरक्तभावेनाडादक आननेन्दुर्मुखचन्द्रो यस्याः। तथा-पृथुलड्डुकस्तनी स्थूलातिकठिनमोदकरूपौ स्तनौ यस्याः सा । तथा-उज्जवलकूरहारिणी विविक्तशुभ्रौदनरूपमौक्तिकमालावती । अथ च-उज्ज्वलकूरेण मनोहारिणी । यतः-रुचेर्ग्रासाभिलाषस्य । अथ च -कान्तेः, अनुरागस्य च । पदं स्थानम् । प्रियापि.पूर्वोक्तगुणसहिता रुचेः पदं बभूव । यतः-प्रिया इति वा । 'भोज्यं भक्ष्ये' इति साधुः॥

चिरं युवाकूतशतैः कृतार्थनश्चिरं सरोषेङ्गितया च निर्धुतः ।
सृजन्करक्षालनलीलयाञ्जलीनसेचि किंचिद्विधुताम्बुधारया ॥ १०८ ॥

 चिरमिति ॥ कयाचिच्चेट्या कश्चिद्युवा किंचिद्विधुतया वक्रचालितयाम्बुधारया कृत्वासेचि सिक्तः । किंभूतः-आकृतशतैरिङ्गितसहस्रैश्चिरं कृतार्थनः कृतप्रार्थनः सन् । चिरं सरोषं कोपव्यञ्जि इङ्गितं यस्यास्तयैव वारंवारं निर्धुतो निराकृतः सन्नपि । तथा-करक्षालनस्य लीलया व्याजेन प्रसादप्रार्थनासूचकानञ्जलीन्करयुगसंपुटान्सृजन्रचयन् । अञ्जलीनिति वचनेन वारंवारमञ्जलेः करणं सूचितम् । वारिधाराकम्पनेन त्वत्प्रार्थना मयाङ्गीकृता, करयुगयोजनाद्विरमेति सूचितम् । इयं स्वीकारचेष्टा । करक्षा- लनं भुजिक्रियासमाप्तिं द्योतयति ॥

न षड्बिधः षिड्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः।
अपारशृङ्गारमयः समुन्मिषन्भृशं रसस्तोषमधत्त सप्तमः॥१०९॥

 नेति ॥ षड्विधो मधुराम्ललवणतिक्तकटुकषायास्वादरूपः षट्प्रकारो रसः षिङ्गजनस्य रसिककामुकसङ्घस्य भोजने विषये तथा तोषं नाधत्तोदपादयत् । यथा-यौवतं स्त्रीसङ्घः तस्य विभ्रमो विलासः तस्मादुद्भवो यस्य स भृशं समुन्मिषन्वर्धमानोपारश्टङ्गारमयो निर्मर्यादानेकविधविभावानुभावव्यभिचारिसंयोगजन्यशृङ्गाररूपः सप्तमो रसः तोषमधत्त । सप्तमत्वं मधुराद्यपेक्षया ज्ञेयं, न तु नाट्यरसापेक्षया । षड्भ्यो रसेभ्योऽन्यस्याभावाद्भोजने सप्तमरसस्य सद्भावादाश्चर्यम् ॥

मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम् ।
दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः॥११०॥

 मुखे इति ॥ अथ हस्तक्षालनानन्तरं नलानुगैस्तैः राजभिः क्रमुकं पूगफलं मुखे निधाय वृश्चिकमवेक्ष्य दमेनार्पिता दत्ता पर्णालिर्नागवल्लीदलपङ्गिरौज्झि त्यक्ता । किंभूतं वृश्चिकम्-अन्तर्मुखवासेन कर्पूरकस्तूरीखदिरसारादिरूपेण मुखसौगन्ध्यकारिणा निर्मितम् । किंभूतैः-भयेन दशनभिया आविलैर्ब्याप्तैः । अतएव स्वभ्रमेणावृश्चिके वृश्चिकबुद्ध्या हासिता हासं प्रापिता आखिला द्रष्टारो यैः । दमेनार्पितः पर्णमध्ये वर्तमानो योऽन्तर्मुखवासस्तेन निर्मितमिति वा ॥