पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०१
षोडशः सर्गः

क्रियाधिकारः, प्रिया भैमी शिशुरल्पप्रमाणा, असौ रथश्च प्रांशुः उच्चत्तर इति स्वयमारोदुमसमर्थेति । तत्तस्माद्धतोर्जनेक्षितो लोकैर्विलोकितः सन्निमां भैमी नालिलिङ्ग । किलेति व्याजे । तत्त्वतस्तु जनसमक्षमालिलिङ्गैव । किंत्वेवं ब्रुवन्धार्ष्ट्यं परिजहारेति भावः । कर्मत्वस्याविवक्षितत्वाद्रथे इत्यधिकरणे सप्तमी । अध्यरूरुहत्, "णौ चङि’इत्युपधाह्रस्वत्वे 'दीर्घो लघोः' इत्यभ्यासदीर्घत्वम् । अश्लिक्षत्, 'क्लिष आलिङ्गने' इति क्सः । 'अश्लिष्यत्' इति पाठे लङ् ॥

[१] इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ।
स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात॥११५॥

 इतीति ॥ इति हेतोः शीघ्रमतिस्त्वरितबुद्धिः शीघ्रमुचितोपायस्फुरणशीलस्तयोरन्योन्यविषयः स्मरस्तं नलं वधूं भैमी चोभौ रोमाञ्चानां भरेण बाहुल्येन ककर्शत्वचौ चकार । अन्योन्यसंस्पर्शादुत्पन्नसात्त्विकरोमाञ्चौ तौ जाताविति भावः । इति किम्-म्रदीयसी स्निग्धतनुनितरां कोमला सस्नेहाङ्गी चेयं भैमी ।अतः प्रियान्नलात्सकाशात्स्खलिष्यति निःसरिष्यति । यतः पीडने निबिडधारणे भीरु दोर्युगं बाहुयुगं यस्य तस्माच्छिथिलधारिणः । इति । 'इतीव तं शीघ्रमतिः सरोऽकरोद्वधूम्' इति पाठः॥

तथा किमाजन्मनिजाङ्कवर्धितां प्रहित्य पुत्रीं पितरौ विषेदतुः ।
विसृज्य तौ तं दुहितुः पतिं यथा विनीततालक्षगुणीभवद्गुणम्॥११६॥

 तथेति ॥ तौ पितरौ तं दुहितुः पतिं जामातरं नलं विसृज्य संप्रेष्य यथा विषेदतुः विषण्णौ बभूवतुः, तथा आजन्म जन्मप्रभृति निजाङ्कयोः स्वीयोत्सङ्गयोर्वर्धितां वृद्धिं प्रापितां प्रहित्य प्रस्थाप्य विषेदतुः किम् । अपितु नेति वैधर्म्योपमा । यतः-किंभूतम्विनीततया स्वविनयत्वेन लक्षगुणीभवन्तः शौर्यादयो गुणा यस्य तम् । सुतावियोगादपि सगुणजामातृवियोगो नितरां तयोर्दुःसहो जात इत्यर्थः । प्रहित्य 'हि गतौ क्त्वो ल्यपि तुक् । विषेदतुः । सदेरेत्वाभ्यासलोपौ । 'सदिरपतेः' इति षत्वम् ॥

निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः ।
तडागकल्लोल इवानिलं तटाद्धृतानतिर्व्याववृते व[२] राटराट् ॥११७॥

 निजादिति ॥ स वराटराट् भीमो नलमनुव्रज्यानुगम्य निजान्मण्डलावधेः सकाशान्निवृत्तौ परावृत्तिसमये चटु प्रियवचनं लपति भाषत इति चटुलापस्तद्भावं गतः प्राप्तः प्रियं भाषमाणो धृताङ्गीकृता नलकृता आनतिर्नमस्कारो येन स एवंभूतः सन् व्याववृते निजगृहान्प्रति परावृत्तः । क इव--- डागकल्लोल इव । यथानिलं वायुमनुव्रज्य तटानिवृत्तो चटुला आपो यस्य तद्भावं गतः सन् तीरासकाशात्तडागतरङ्गो व्यावर्तत इत्युपमा । चटुलाप इत्यत्र 'कर्मण्यण् । पक्षे 'ऋक्-' आदिना समासान्तः । स तु तत्पुरुष एवेति कश्चित्तदुपेक्ष्यम् ॥


  1. सुखावबोधायां पूर्वोत्तरार्धव्यत्यासः ।
  2. 'विराटराट्' इति पाठः सुखावबोधासंमतः