पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०४
नषधीयचरिते

गुप्तं यथा तथा विसर्जितः प्रेषितः निजः कटाक्षः सकलां पुरीमविलोक्यैव किंचिन्नरीक्ष्य भैम्यनुरागबाहुल्यात्सहसासमय एव पुरीनिरीक्षणान्निवर्तिना शीघ्रं परावृत्तेन तदीक्षणेन नलकटाक्षेण सहार्धपथ एव समागमं संबन्धं ययौ । उभावपि परस्परानुरागेण क्षणमात्रमप्यवलोकनान्तरायं न सहेते स्मेति भावः । नितरामनुरागः सूचितः । 'पुरी निरीक्ष्य' इति पाठे 'पुरी निरीक्ष्य ईषद्न्यमनाः किमिति बुद्धा प्रेषितः । रहस्यं ज्ञातुं दूतोपि गुप्तं प्रेष्यते । प्रियाय 'क्रियार्थोपपदस्य-' इति चतुर्थी ॥

अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ १२४ ॥

 अथेति ॥ अथ पुरसमीपप्राप्त्यनन्तरं जायया कृत्वाभिरामो मनोहरः स नलो नगरे धृतैः स्थापितैरमात्यरत्नैः सह पथि समियाय मेलनं प्राप । किंभूतैः-कुतूहले भैमीसहितनलदर्शनकौतुके विषय उत्कैरुत्कण्ठितैः । तेन वा उदूर्ध्वं कं शिरो येषाम् । ऊर्ध्वीकृतशिरोभिः । कः कैरिव-कुसुमश्रिया चम्पकादिपुष्पशोभया सनाथो रमणीयो मधुर्वसन्तः क्रमेण वसन्तागमपरिपाट्या मिलितैर्मध्वास्वादकौतुकेनोत्कण्ठितैरलिभिर्भ्र- मरैरिव यथा संयुज्यते तथेत्युपमा ॥

कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥ १२५॥

 कियदिति ॥ स नलः पुरीं विवेश । किं कुर्वन्-स्वयंवरवृत्तान्तश्रवणकुतूहलचञ्लेषु तेषु मन्त्रिप्रवरेषु कियदपि स्वसंबन्धि वृत्तजातं स्वदूत्येन्द्रादिमायाप्रभृतिरूपं मुख्यं वृत्तान्तं संक्षेपेण कथयन् । तथा-कियदपि निजदेशवृत्तं स्वराष्ट्रे जातमेभ्योऽमात्येभ्यः सकाशाच्छ्रवणपथं नयनाकर्णयन् । ग्रामगतजातिः । 'अमुत्र-' इति पाठे 'अदः परस्मिन्नत्रापि' इति वचनामुत्रेत्यनेन व्यवहितोऽपि स्वयंवरः परामृश्यते ॥

अथ पथि पथि लाजैरात्मनो बाहुवल्ली-
 मुकुलकुलसकुल्यैः पूजयन्यो जयेति ।
क्षितिपतिमुपनेमुस्तं दधाना जनाना-
 ममृतजलमृणालीसौकुमार्य कुमार्यः ॥ १२६ ॥

 अथेति ॥ अथ पुरप्रवेशानन्तरं जनानां कुमार्योऽकृतविवाहाः कन्यास्तं क्षितिपतिमुपनेमुः समीपमागत्य नमश्चक्रुः । किंभूताः-पथि पथि प्रतिमार्गमात्मनो बाहुवल्लीनां भुजरूपलतानां मुकुलकुलेन कलिकावृन्देन सकुल्यैस्तत्तुल्यैर्लाजैर्मङ्गलद्रव्यतया शकुनदर्शनेन जय सर्वोत्कर्षेण वर्तस्वेति शब्दपूर्व पूजयन्त्यः । तथा-अमृतजलैः जाताया मृणाल्या बिसस्येव सौकुमार्य मार्दवं दधानाः । पुरप्रवेशे शकुनार्थं कुमार्य इत्युक्तम् । सकुल्यैः, दिगादित्वाद्यत् ॥