पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१०
नैषधीयचरिते

 पवनेति ॥ पवनस्य चन्द्रसूर्याद्याधारेष्वावहादिषु सप्तसु स्कन्धेषु मध्ये ताराचक्रा- धारभूतं स्कन्धमारुह्य नृत्यत्तरा उद्गच्छन्तः कराः किरणा ज्वालारूपा यस्य स शिखी वह्निरनेनाग्निना भैमी प्रापीति नभःसदां देवानां भ्रमं चक्रे । भैमीप्राप्तिहर्षादयं नृत्यति किमिति सर्वेषां देवानां भ्रान्तिर्जातेत्यर्थः । अन्योऽपि नववधूलाभे कस्यचिन्मित्रस्य स्कन्धमारुह्य नृत्यत्करो भवति ॥

तत्कर्णौ भारती दूनौ विरहाद्भीमजागिराम् ।
अध्वनि ध्वनिभिर्वैणैरनुकल्पर्व्यनोदयत् ॥ १२ ॥

 तत्कर्णाविति ॥ भारती वाणी भीमजागिरां भैमीवाणीनां विरहाद्दूनौ संतप्तौ तेषां देवानां कर्णावध्वनि मार्गेऽनुकल्पैर्भैमीवाण्याः सकाश्यान्न्यूनैर्वैणैर्वीणासंबन्धिभिर्ध्वनिभिर्व्यनोदयत्सुखिनौ चकार । मुख्याभावेऽनुकल्पोपि कार्यार्थमङ्गीक्रियते । 'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण'इति वचनात्कर्णाविति प्रतिनियतापेक्षं द्विवचनम् ॥

अथायान्तमवैक्षन्त ते जनौघमसित्विषम् ।
तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् ॥ १३ ॥

 अथेति ॥ अथ वाणीवीणाक्कणितश्रवणानन्तरं ते देवीदेवा असित्विषं खड्गतुल्यकान्तिमायान्तं संमुखमागच्छन्तं जनौघमवैक्षन्तापश्यन् । उत्प्रेक्षते-तेषां देवानां प्रत्युद्गनस्य प्रीत्या वाञ्छया मिलधुज्यमानं मूर्तिमत्सशरीरं ब्योमाकाशमिव । यतः-सशरीरस्य क्रियावत्त्वं युक्तम् । 'जनौधं मषीत्विषम्' इत्यपि पाठः॥

अद्राक्षुराजिहानं ते स्मरमग्रेसरं सुराः ।
अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम् ॥ १४ ॥

 अद्राक्षुरिति ॥ ते सुरा अग्रेसरं पुरःसरमाजिहानमागच्छन्तं स्मरमद्राक्षुः । उत्प्रेक्षते-- तजनौघस्वामिना कलिनाक्षाणामिन्द्रियाणाम् । अथ च-घृतपाशकानाम् । संबन्धि- नोविनयस्याविनीतत्वस्य शिक्षार्थं पुरस्कृतमिवाग्रेकृतमिव । अथ च-पूजितमिव । स्मरो हीन्द्रियवैकृतं कर्तुं जानातीतीन्द्रियार्थाक्षशब्दच्छलेन द्यूते पाशकेषु विषये नल- मविनयं शिक्षयितुं पाशकाज्ञानद्वारा नलं निग्रहीतुं कलिना पूजितः पुरस्प्रेषितश्च । प्रायेणेत्युत्प्रेक्षा॥

अग[१] म्याथै तृणप्राणाः पृष्ठस्यीकृतभीहियः।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥ १५ ॥

 अगम्येति ॥ एवंभूता जना यस्य कामस्य परितः पार्श्वयोश्चरन्तीति पारिपाश्विकाः। वयस्या इत्यर्थः । सेवका वा । किंभूताः-गन्तुमशक्यानामनर्हाणां राश्यादीनां मात्रा-


  1. 'अगम्यार्थतणप्राणाः' इति वा पाठः सुखावबोधासंमतः