पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
नैषधीयचरिते

गृहीत्वा निरुपद्रवे देशान्तरे गुप्तो वसति । 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः। तडाक इति 'तड आघाते' इत्यस्मात् 'पिनाकादयश्च' इत्युणादिसूत्रेणाकप्रत्यये सिद्धम् । मन्थनादिति ‘भीत्रा-' इत्यपादानत्वम् । चिरत्न इति 'चिरपरुत्परारिभ्यस्त्नो वक्तव्यः' इति त्नः॥ समुद्रधर्मानाह । अग्रे पयोधिलक्ष्मीमुषि इति तडागविशेषणात्तदेव पयोधिलक्ष्मीमुट्त्वमाहाष्टभिः-

पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छसुच्छवीन् ।
जलार्धरुद्धस्य तटान्तभूभिदो मृणालजालस्य मिषाद्बभार यः १०८

 पय इति ॥ स कः-यस्तडागो मृणालजालस्य बिससमूहस्य मिषाद्व्याजात्पयसि निलीना भग्ना अभ्रमुकामुका ऐरावतास्तेषामावली समूहस्तस्या रदान्दन्तान्बभार । किंभूतान्रदान्-अनन्तोरगः अनन्तसंज्ञक उरगः शेषस्तस्य पुच्छं तद्वत्सुच्छवीशोभनदीप्तीन् । 'सच्छवीन्' इति पाठे सदृशदीप्तीञ्श्वेतान् । किंभूतस्य मृणालजालस्य-जलेनार्धरुद्धस्यार्धावृतस्वरूपस्य । तथा-तटान्ते तटसमीपे या भूस्तां भिनत्तीति तटान्तभूभित्तस्य । आकण्ठमग्नत्वादेरावता न दृश्यन्ते किं तु दन्ता दृश्यन्ते । पूर्वं त्वेक एवैरावत आसीत्, अधुना तु बहव इत्यर्थः। आवलीशब्देन रत्नाधिकत्वं सूचितम् । एवमुत्तरत्रापि रत्नाधिक्यं द्रष्टव्यम् । तटान्तभूभेत्तृत्वं दन्तानामपि विशेषणम् । कमेः 'न लोका-' इति निषेधाभावात् 'अभ्रमुकामुक' इति षष्ठीसमासः। सच्छवीनित्यत्र 'समानस्य' इति योगविभागात्समानस्य सः॥

तटान्तविश्रान्ततुरंगमच्छटास्फुटानुबिम्बोदयचुम्बनेन यः ।
बभौ चलद्वीचिकशान्तशातनैः सहस्रमुच्चैःश्रवसामिवाश्रयन् १०९

 तटेति ॥ यस्तडागः तटान्ते कूलप्रान्ते विश्रान्ताः स्थिता नलतुरंगमच्छटा अश्वसमूहास्तेषां स्फुटं प्रकटमुदितोऽनुबिम्बः प्रतिबिम्बस्तस्य चुम्बनेन संबन्धेन तत्प्रतिबिम्बमिषेणेत्यर्थः । उच्चैःश्रवसां सहस्रमाश्रयन्निव प्रामुवन्निव बभौ । किंभूतं सहस्रम्-वीचय एव कशा अश्वताडन्यस्तासामन्ताः प्रान्तास्तैर्यानि शातनानि ताडनानि तैश्चलञ्चञ्चलम् । प्रतिबिम्बितं वस्तु तरङ्गवशाञ्चञ्चलमिव प्रतिभाति । तत्र ताडितत्वेन चलत्त्वमुत्प्रेक्षागर्भम् । नलाश्वानामुश्चैःश्रवःसाम्यं द्योत्यते। 'अश्वादेस्ताडनी कशा' इत्यमरः ॥

सिताम्बुजानां निवहस्य यच्छलाद्बभावलिश्यामलितोदरश्रियाम् ।
तमःसमच्छायकलङ्कसंकुलं कुलं सुधांशोर्बहलं वहन्बहु ॥ ११० ॥

 सितेति ॥ यस्तडागः सिताम्बुजानां श्वेतोत्पलानां निवहस्य समूहस्य छलान्मिषात्सुधांशोश्चन्द्रस्य बहलं सान्द्रं विस्तृतं वा कुलं वृन्दं वहन्सन् बहु अतिशयेन बभौ शुशुभे।


१ 'अत्रानुप्रासातिशयोक्तिः समासोक्तिश्चालंकारः' इति साहित्यविद्याधरी । २ 'अत्रापह्नुतिरलंकारः' इति साहित्यविद्याधरी । 'मिषाद्व्याजात्' इत्यपह्नवालंकारः । तत्रैक एवैरावतः, अत्र त्वसंख्या इति व्यतिरेकः'

इति जीवातुः । ३ 'अत्रापह्नुतिरूपकोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । प्राप्नुवन्निव बभावित्युत्प्रेक्षा। व्यतिरेकश्च पूर्ववत् । 'एतेन नलाश्वानामुचैःश्रवःसाम्यं गम्यते इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः।