पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१२
नैषधीयचरिते


न्द्राग्न्यादिनेत्राणां दैवतवैद्याभ्यां नासत्याभ्यामपि न चिकित्स्यं प्रतिकर्तुमशक्यमरोचकं रुच्यभावं चक्रे । अधिकरूपस्य नलस्य दृष्टत्वात्, तद्धीनरूपे स्मरे दृष्टे तन्नेत्राणां प्रीतिर्न जाता । न केवलं सरं दृष्ट्वा न प्रीतास्ते, किंतु दस्रावपि । तयोरपि नलाद्धीनत्वादित्यर्थः । स्मरदस्त्रेभ्योऽपि नलोऽधिक इति ध्वन्यते । स्मरमनादृत्य पुरश्चलिता इति भावः । अथवा-अरोचकं सर्वथान्नादिरुच्यभावो रोगविशेषः । स कर्मजत्वाद्देववैद्याभ्यामपि चिकित्सितुमशक्यः । किं पुनर्नृवैद्यैरिति समासोक्तिः । भङ्ग्यन्तरेण नलरूपातिशयप्रकाशे तात्पर्यमुक्तम् । उपमानतिरस्कारात्प्रतीपं च । पीतनलश्रियामिति 'तृतीयादिषु-' इति पुंवद्भावान्नपुंसकह्रस्वत्वाभावान्नुडभावः । अचिकित्स्यमिति शक्यार्थे 'अचो यत्' इति यत् । 'दुश्चिकित्सम्' इति पाठे कर्मणि खल् । दुर्नञर्थः । खल (र्थ) योगात् 'न लोका-' इति षष्ठीनिषेधात् 'वैद्याभ्याम्' इति तृतीया । अरोचकमिति रोगाख्यायां बाहुलकादस्त्रियामपि ण्वुल ॥

यत्तत्क्षिपन्तमुत्कम्प्रमुत्थायुकमथारुणम् ।
बुबुधुर्विबुधाः क्रोधमाक्रोशाक्रोशघोषणम् ॥ १९ ॥

यत्तदिति ॥अथ स्मरदर्शनानन्तरं यत्तत्किंचिल्लोष्टकाष्ठपाषाणादि परप्रहारार्थं मुञ्चन्तम्, नितरां सर्वाङ्गकम्पिनम् , जनैर्वार्यमाणमथा(प्या)वेशातिशयात्केशाकेशि योद्धं पौनःपुन्येनोत्तिष्ठन्तम् , लोहितीभूतसर्वाङ्गम् , क्रोशं मर्यादीकृत्याभिव्याप्य वा परनिन्दावाक्यस्य उच्चैर्घुष्टं यस्य । अतिदूरश्रूयमाणपरुषभाषिणमिति यावत् । एवं भूतं सशरीरं क्रोधं तत्र जनौघे ते देवा बुबुधिरे । एतैश्चिह्नैः क्रोधोऽयमिति ज्ञातवन्त इत्यर्थः । क्रोधाकान्तस्य जातिरियम् । 'आक्रोशाकोशभूषणम्' इति पाठे आक्रोशं य आक्रोशः स भूषणं यस्येत्यर्थः । उत्थायुकमिति पूर्ववत् ॥

यमुपासन्त दन्तौष्ठतासृक्शिष्यचक्षुषः ।
भृकुटीफणिनीनादनिभनिश्वासफूत्कृतः ॥२०॥

यमिति ॥ दन्तैरोष्ठयोर्यो व्रणस्तज्जं यद्रक्तं तस्य शिष्यभूते तस्मादिव संक्रान्तलौहित्ये लक्षणया तत्तुल्ये नेत्रे येषां ते । तथा-भुकुटी भ्रुवोराक्षेपः संकोचः सैव भुजगी तस्या नादः फूत्कारस्तत्तुल्याः संरम्भनिर्गच्छन्नासापवनानां फूत्कारा येषामेवंभूता जना यं सेवन्ते । तं बुबुधिरे इति पूर्वेण संबन्धः । क्रोधवशाद्दन्तैरोष्ठौ दश्यते । नेत्रे रक्ते जायेते, । तेन श्वासफूत्काराश्च निर्गच्छन्ति । यस्य सेवका एवं विधा इत्यर्थः । रूपकम् । क्षतशोणितस्य, चक्षुस्थितेस्तद्गुणाः ॥

दुर्ग कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः ।
दुर्वासोहृदयं लोकान सेन्द्रानपि दिधक्षति ॥ २१ ॥

 दुर्गमिति ॥ यः क्रोधो मदनबाणेनापि लङ्घयितुमशक्यमत एव दुर्गम् । अथ च-गिर्यादिविषमदुर्गरूपम् । एवंभूतं रुद्ररूपस्य दुर्वाससो मुनेर्मानसमाश्रित्य शकादिसहि