पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१४
नैषधीयचरिते


रन्ती वाणी यस्यैवंभूतः, तथा -आकूतैर्निजदैन्यज्ञापकैश्चेष्टितैः काकुं शोकभयादिजन्यं ध्वनिविकारं सूचयञ्ज्ञापयन् खण्डोक्तिं वदन्निति यावत् । तथा -अङ्गुलीमुखनिक्षेपादिचेष्टितैर्देहि देहीत्यादिभयदैन्यादिवक्रितां वाणीं वदन्, एवंभूतो मूर्तो लोभस्तत्र जनौघे तैर्देवैदृष्टः। यत्तु-धनिनि बिभ्यदिति । तदव्याख्यानम् । 'भीत्रार्थानां भयहेतुः' इति पञ्चमीप्रसङ्गात् । 'इभ्य आढ्यो धनी स्वामी', 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इति चामरः । लुब्धस्येयं जातिः॥

दैन्यस्तैन्यमया नित्यमायाहारामयाविनः।
भुञ्जानजनसाकूतपश्या यस्यानुजीविनः ॥ २५ ॥

 दैन्येति ॥ नित्यं दैन्यस्तैन्यमयाः सदा दीनत्वचौरत्वे प्रचुरे येषु तादृशा दैन्यचौर्यरूपा वा, तथा-जाठरवह्न्यननुरूपाहारगौरवादजीर्णरसत्वान्नित्यं दीर्घरोगिणः, तथा-अयमेव सकलं भोक्ष्यते मह्यं भोक्तुं न दास्यति, कीदृग्घृतं दधि च, मह्यं किं वितीर्यम् , अस्मै च किमित्यादिदुष्टदृष्ट्याशयादिनाभ्यवहरतो लोकस्य साभिप्रायं विलोकका एवंभूता यस्य लोभस्य सेवकाः स व्यलोकीति पूर्वेण संबन्धः । इयमपि जातिः । (स्तैन्येति 'स्तेनाद्यन्नलोपश्च' इत्यत्र 'स्तेनात्' इति योगविभागात्ष्यञ्)। आमयावीति 'सर्वत्रामयस्योपसंख्यानम्' इति दीर्घश्च ॥

धनिदानाम्बुवृष्टेयः पात्रपाणाववग्रहः ।
खान्दासानिव हा निः[१] [२]स्वाद्विक्रीणीतेऽर्थवत्सु यः ॥ २६ ॥

 धनीति ॥ संप्रदानभूतब्राह्मणहस्ते विषये समृद्धधनानां नराणां संकल्पसंबन्धिजल वर्षणस्य यो लोभः प्रतिबन्धकः । वृष्टेश्वावग्रहः संभाव्यते । महाधनिकोपि यद्वशात्पात्रपाणौ जलं न वितरतीत्यर्थः। तथास्वान्निर्धनात् (हेतोः) स्वानात्मनः । स्वीयान्पुत्रदारादीन्वा । धनिकेषु विषये निर्गतस्नेहाभिमानः कश्चन विनिमये स्ववशवर्तिनो दासीपुत्रानिव यो विक्रीणीते वितरति । हा खेदे । निःस्वेन च लोभवशादात्मनो दासा यथा स्वेच्छया धनार्थं विक्रीयन्ते, तथेत्यर्थः । अवग्रहः पूर्ववत् ॥

एकद्विकरणे हेतू महापातकपञ्चके ।
न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥ २७ ॥

 एकेति ॥ ब्रह्मवधादिपञ्चमहापातकसङ्घमध्ये एकस्य महापातकस्य द्वयोश्च करणे क्रमेण कारणभूतो यस्माद्, अत एव तयोरल्पकार्यकारित्वादुभौ कोपकामौ यो लोभस्तुणतुल्यावपि न मन्यते । यतः-स्वयं पञ्चापि महापातकानि नरादिना कारयन् । कोपाच्च योऽपि ब्राह्मणो हन्यते, तस्यैकं ब्रह्मवधं प्रति हेतुत्वम् । कामात्-गुरुतल्पगमनम् , स्त्रीकामाञ्च तद्भर्तुर्ब्राह्मणस्य वधश्चेति महापातकद्वयं प्रति तस्य हेतुत्वम् । ध-


  1. 'अयं पाठः सर्वत्र नोपलभ्यते' ।
  2. 'निःस्वान् धनहीनान्' इति जीवातुः