पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१५
सप्तदशः सर्गः


नादिलोभात्तु-ब्रह्मवधः, सुवर्णस्तेयं च । रसलोभात्सुरापानम् । कामलोभात्स्त्रीजातिप्रदर्शितधनलोभाद्वा गुरुतल्पगमनम् , इष्टसंग्रहलोभादेतैश्चतुभिरपि सह संसर्ग इत्येवं लोभस्य पञ्चापि महापातकानि प्रति हेतुत्वादद्धिकत्वात्कोपकामावप्यकिंचित्करौ मन्यते । ताभ्यामप्यधिको लोभ इति भावः । 'एकद्वि-' इति द्वन्द्वत्वाड्डजभावः । 'संख्याया अल्पीयस्याः, इत्येकशब्दस्य पूर्वनिपातः । यदा तु एकं वा द्वौ वा प्रमाणं येषामिति समासे 'बहुव्रीहौ संख्येये डजबहुगणात्' इति डच्प्रसङ्गस्तदा 'एकद्व-' इति पाठो युक्तः। तृणे इति 'मन्यकर्मण्यनादरे विभाषाप्राणिषु इति चतुर्थ्या वैकल्पिकत्वात्पक्षे द्वितीया ॥

यः सर्वेन्द्रियसमापि जिह्वां बह्ववलम्बते ।
तस्यामाचार्यकं याच्ञा[१]बटवे पाटवेर्जितुम् ॥२८॥

 यः सर्वेति ॥ यो लोभः सर्वेन्द्रियाणि षडिन्द्रियाणि समानि यस्य एवंविधः । घ्राणं गन्धलुब्धम् , चक्षु रूपलुब्धमित्यादिप्रकारेणेत्यर्थः । (अपि) बहु यथा भवति तथा जिह्वामवलम्बते । किं कर्तुम् तस्यां जिह्वायां याच्याबटवे याच्याबटुर्ब्रह्मचारी शिष्यस्तस्मै पाटवे पटुत्वविषये याच्ञाचाटूक्तिकौशले आचार्यकं गुरुत्वजितुम् । लुब्धस्यैषा रीतिः । अयमत्र तात्पर्यार्थः-यो लोभो दुर्वाचे विप्रियवाक्यवचनाय यत्सामर्थ्यं नैपुण्यं तद्विषये गुरुतां विधातुमिवास्याः सकाशात्प्रियवचनसंभाषणाभ्यासं कर्तुमिव शिष्यभूतः । तामतितरां सेवत इत्यर्थः । लोभवशात्सर्वोपि याच्ञाप्रियवाक्यानि ब्रूत इति भावः । ‘याच्ञाव(च)टवे पटवे' इति पाठे पटुने दृढाय याच्ञाव(च)टव इत्यर्थः । याच्ञा चाटुपाटवे विषये स्वस्या गुरुतां विधातुमिवोत्प्रेक्षा । 'योपधात्-' इति वुञि 'आचार्यकम्' इति साधु । 'व(च)टवे पटवे' इति भाषि[२] तपुंस्कम् । पञ्चभिः कुलकम् ॥

पथ्यां तथ्यामगृह्णन्तमन्धं बन्धुप्रबोधनाम् ।
शून्यमाश्लिष्य नोज्झनं मोहमैक्षन्त हन्त ते ॥ २९ ॥

 पथ्यामिति ॥ हितां सत्यां बन्धुना मातापित्रादिना कृतां प्रबोधनां सत्कर्म कुरु, असन्माकार्षीरित्यादिरूपां प्रवर्तनामङ्गीकुर्वाणम् । यतः-अन्धमशानबहुलम् । तथा- (शून्यम्) अलीकमप्रामाणिकमपि" ...."रजतत्वेन, अनात्मभूतानि जडान्यपि देहेन्द्रियादीन्यविद्याविलासवशादात्मत्वेन, (आश्लिष्य) प्रतिपद्य सहस्रशो बोध्यमानमपि न त्यजन्तं एवंभूतं मोहं ते देवास्तत्र जनौघे ददृशुः । हितस्य प्रियस्य चानङ्गीकरणात्, आश्लिष्टशून्यापरित्यागाच्च । 'हन्त' इत्याश्चर्ये खेदे वा । मूढस्येयं जातिः ॥

[३]श्वःश्वः प्राणप्रयाणेऽपि न स्मरन्ति स्मरद्विषः।
मग्नाः कुटुम्बजम्बाले बालिशा यदुपासिनः ॥ ३०॥


  1. 'याञाचाटवे पाटवे' इति सुखावबोधासंमतः पाठः ।
  2. 'अत्रोपमोत्प्रेक्षाभ्यां स्वजातीयकाभ्यां वाक्यार्थयोः शब्दहेतुत्वाच्छब्दार्थहेतुककाव्यलिङ्गमलंकारः संकीर्यते इत्यलंकारत्रयस्य परस्परसंबन्धेनाङ्गाङ्गिभावः' इति जीवातुः
  3. 'शश्वत्' इति पाठोपि ।