पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१७
सप्तदशः सर्गः।

दसद्धस्त्वग्रहणम् । संसारस्यानित्यदुःखरूपतां जानतामपि तदपरित्यागहेतुत्वादशानरूप इत्यर्थः । तथा--यः श्रुते शास्त्राधिगमे सत्यपि मूढत्वेन ज्ञेयानुरूपं जाड्यम् । विधिनिषेधाद्यनिर्णयरूप इत्यर्थः । तथा-यश्च प्रकाशे सौराग्नेयचाक्षुषाद्यालोके सत्यपि द्रष्टव्यघटपटाद्याच्छादनरूपतयान्धकाररूपः । प्रकटेऽप्यर्थे प्रतीतिप्रतिबन्धक इत्यर्थः॥

[१] कुरुसैन्यं हरेणेव प्रागलज्जत नार्जुनः ।
हतं येन जयन्कामस्तमोगुणजुषा जगत् ॥ ३४ ॥

 कुर्विति ॥ तमोगुणजुषाज्ञानरूपतमोगुणसेविना येन मोहेन हतं जगज्जयन्कामो नालज्जत । क इव-तमोगुणजुषा आश्रिततमोगुणेन हरेण संहारकारकेण रुद्रेण प्राप्तकालतया प्राक् हतं ग्रस्तं कुरुसैन्यं पश्चाद्विनाशयन्नर्जुन इव । मया हतमित्यभिमानेन लज्जां नाप । अन्येन हतस्य पश्चात्स्वेन हनने हि लज्जा युक्ता । सा तु कामस्य न जातेत्यर्थः । मूढ एव कामपरवशो भवतीत्यर्थः । ईश्वरः प्राक्कुरुसैन्यं शूलेन हन्ति, पश्चाच्छरेणार्जुन इति द्रोणपर्वकथा । कुलकम् ॥

चिह्निताः कतिचिद्देवैः प्राचः परिचयादमी।
अन्ये न केचनाचूडमेनःकञ्चकमेचकाः ॥ ३५ ॥

 चिह्निता इति ॥ अमी कामादयः कतिचित्कतिपये देवैरिन्द्रादिभिः प्राचः पूर्वजातात्परिचयात्पटुतरात्संसर्गाच्चिह्निताः चिह्नैनिश्चिताः । देवानामपि कामाद्यायत्तत्वात्प्राचीनः परिचयः । अन्ये तदुपजीविनो बौद्धादयः केचन विशेषेण न ज्ञाताः । यतः-आचूडं शिखामभिव्याप्य मर्यादीकृत्य वा एनसा पापरूपेण कञ्चकेन मेचकाः श्यामवर्णाः । यो हि नीलवस्त्रादिनावृतदेहः, स विशेषतो न लक्ष्यते। श्यामत्वान्न बुद्धा इत्यर्थः॥

तत्रोद्गूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि ।
कस्याप्याकर्णयामासुस्ते वर्णान्कर्णकर्कशान ॥ ३६ ॥

 तत्रेति ॥ उद्गगूर्णे त्यक्तमर्यादेऽर्णोधौ समुद्र इवातिगभीरे तत्र तस्मिन्कलिसैन्येऽभ्यर्णमुपेयुषि सामीप्यं गते सति ते देवाः कस्याप्यनुपलक्षिताकारस्य चार्वाकस्य कर्णकर्कशान्वर्णानाकर्णयामासुः । अभ्यर्णम्, 'अभेश्चाद्विदूर्ये' इति नेट् । 'गुरी उद्यमे' । मर्यादा धारणे उद्यमत्यागिनीत्यर्थः ॥

 तानेव वर्णानाह-

ग्रावोन्मज्जनवद्यज्ञफलेपि श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यन खिलीकृतः ॥ ३७ ॥


  1. इदं पद्यं जीवातौ न व्याख्यातम् । कस्मिंश्चिन्मूलपुस्तकेपि नोपलभ्यते ॥