पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१८
नैषधीयचरिते

 ग्रावेति ॥ प्रावोन्मज्जनवत् 'ग्रावाणः प्लवन्ते' इति प्रतिपादितपाषाणतरणवज्ज्योतिटोमादियज्ञानां साध्ये स्वर्गादौ फलेपि 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुतीनां सत्यता यथार्थता । ग्रावोन्मज्जनवाक्यस्य प्रत्यक्षबाधितत्वात्, यागानन्तरमेव स्वर्गादेरदृष्टत्वाज्ज्योतिष्टोमादियागप्रतिपादिका श्रुतिरपि प्रत्यक्षबाधिता । तथाच 'यागश्रुतिरप्रमाणम्, प्रत्यक्षविरुद्धत्वाद्ग्रावोन्मज्जनश्रुतिवत्' इति प्रयोगाद्यागश्रुतेरपि स्वर्गादावसत्यतेति च व्याख्येयम् । अत्र विरुद्धलक्षणया सत्यतेत्यस्याऽसत्यतेत्यर्थः । एवमन्येषामपि वेदवाक्यानां श्रुतित्वाविशेषादप्रमाणत्वे हे धीवृद्धाः बुद्धिमन्तो देवास्तत्र फले श्रुतौ वा युष्माकं का श्रद्धा कथमास्तिक्यम्। अपि त्वप्रामाणिकेर्थे श्रद्धा न कार्या । यद्येन कारणेन यद्वशाद्वेदोक्तविद्यातिक्रमभिया कामाध्वा यदृच्छाचारमार्गः खिलीकृतो बद्धः । त्यक्त इत्यर्थः । श्रुतिमात्रस्याप्रमाणत्वाद्यज्ञे यजमानर्त्विजां कतिचिदहानि यद्द्रह्मचर्य तदप्यप्रामाणिकत्वात्त्यजतेति भावः । 'धीवृद्धाः' इत्युपहासे । अतिमूर्खा भवन्त इत्यर्थः ॥

केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥३८॥

 केनेति ॥ केनाप्यज्ञातनाम्ना बोधिसत्त्वेनातिप्राशेन जिनभट्टारकेण वेदस्य मर्मभेदाय रहस्यभङ्गाय जातमुत्पन्नम् । वेदमर्मभेदः कर्तुमारब्ध इति यावत् । कथमत आह-यद्यस्मात्सत्त्वेन हेतुना सत्त्वरूपेण लिङ्गेन यत्सत्तत्क्षणिकम् , यथा घट इत्यादिरूपेण जगदस्थिरं क्षणिकं जगदे प्रत्यपादि । सत्त्वलिङ्गेन विश्वस्य क्षणिकत्वसिद्धावभयलोकगतं स्थिरमेकं कर्तारमधिकारिणमाश्रित्य वेदैर्विहितानां विधिनिषेधानां निराश्रयतया वेदस्याप्रामाण्यापादनाद्वेदमर्मभेदः कृत इत्यर्थः । बौद्धसिद्धान्तस्तु ग्रन्थान्तराद्वोद्धव्यः । विस्तरभयात्र नोक्तः। अयं वक्ता पूर्वस्माद्भिन्नः। चार्वाक एव वा स्वमतं वेदाप्रामाण्यं बौद्धसंवादेन द्रढयति-केनेति । सत्त्वेन हेतुना यस्साजगदस्थिरं जगदे । तस्मात्केनापि लोकोत्तरप्रज्ञेन तेनैव चार्वाकेण वेदमर्मभेदाय बौद्धेन जातम् । तदीयमताङ्गीकरणात्तद्रपेणैव जातमित्यर्थः । 'जगाद' इति पाठे यद्बोधिसत्त्वं जगदस्थिरं जगादेति व्याख्येयम् । क्षणिकत्वे सिद्धे येन पापं कृतं, स नष्ट एवेति किमिति पापाद्भयमित्यादि प्रकरणाशेयम् ॥

अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्र्कम् ।
प्रज्ञापौरुषनिःस्वानां जीवो जल्पति जीविका ॥ ३९ ॥

 अग्नीति ॥ नित्यं काम्यं च सायंप्रातर्होमरूपमग्निहोत्राख्यं कर्म, त्रयी च तन्त्रं मीमांसा, वेदत्रयसंबन्धि वा यत्तन्त्रं वेदविहितोऽन्योऽपि कर्मकलापः, तथा-त्रयो दण्डा यत्र तत्पाशुपतव्रतम् , तथा-भस्मनः पुण्ड्रकः तिलको यत्रैवंविधं शैवादिव्रतं एतत्सर्वं प्रज्ञाया बुद्धेः पौरुषेण सामर्थेन तीक्ष्णया प्रज्ञया निःस्वानां हीनानां, प्रज्ञया पौरुषेण च वा हीनानां, वञ्चनेन चौर्येण च बलाद्वाग्रहीतुमसमर्थानां,पुरुषाणां जीविका जीवनोपायः। तद्वेषधारणा धर्मेण द्रव्यमर्जयितुमेव। न तु तात्त्विको धर्मः परलोकसाध-