पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१९
सप्तदशः सर्गः।

नम् । एवं वेदप्राण्यवादिनां भवति । जीवो बृहस्पतिर्जल्पति वदति । वाक्यार्थः कर्म । तदुक्तं तेनैव-'अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मपुण्ड्रकम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति । तस्मादग्निहोत्राद्यप्रमाणमेवेति भावः । 'जीविका' इति धात्वर्थनिर्देशे ण्वुलू ॥

 इदानी ब्राह्मण्यादिजातिधर्मानसहमानो जाति दूषयति-

शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः।
तदनन्तकुलादोषाददोषा जातिरस्ति का ॥ ४० ॥

 शुद्धिरिति ॥ विशुद्धमातापितृजन्यत्वं ब्राह्मण्यादेर्लक्षणम् । सा शुद्धिर्दुर्निरूपा । यद्यस्मात्पित्रोर्मातापित्रोर्यौ पितरौ मातामहपितामहौ, मातामहीपितामह्यौ च, तयोरेकशः प्रत्येकं वंशद्वयी शुद्धौ सत्याम् , एवं तयोरपि पितृपितामहीमातृपितामह्यादिमातामहमातुः, पितामहादिमातामहीमातुः, पितामह्यादिशुद्धौ सत्याम् । एवं ब्रह्माणं यावत्प्रत्येकं शुद्धौ सत्यां शुद्धिः परीक्षणीया। तत्तस्मादनन्तकुला एवमपरिमितवंशभेदा अत एव दोषाद्दुर्विज्ञेयशुद्धिसंतानस्त्रीपुंसपारम्पर्यतया शुद्धेः संदेहात् , इन्द्रचन्द्रादीनां च पुराणप्रामाण्येन व्यभिचारदर्शनादशुद्धेनिश्चयाच, जातिसंकररूपाद्दोषात्का जातिनिर्दोषास्ति । अपि तु न कापि । यदाहुः–'अप्येकपङ्क्यां नाश्नीयात्संयतैः स्वजनैरपि । को हि जानाति किं कस्य प्रच्छन्नं पातकं भवेत्॥'इति।तथा-'अनादाविह संसारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना॥' इति । तस्मात्संकीर्णयोनित्वात्सर्वा अपि जातयो दुष्टा एवेति जातिधर्मान्विहाय स्वेच्छाचारं कुरुतेति भावः। यद्वातस्मादा ब्रह्माणमनन्तानां कुलानामदोषाहोषाभावाद्यभिचारादिदोषरहिता जातिः स्यात् , सा काप्यस्ति, अपि तु न कापि । पूर्वपूर्वपित्रादिव्यभिचारादिदोषात्सर्वापि जातिर्दुष्टेति व्याख्या । 'यदा तदा' इति पाठः सम्यक् । तयोः पित्रोरनन्तकुलानां दोषाभावेन कृत्वाऽदोषा जातिरस्ति । अपितु महति कुले कस्यचिद्दोषसंभवात्सर्वापि जातिर्दुष्टवेत्यर्थ इति वा व्याख्या । यच्छब्दसामर्थ्यात्तच्छब्दाध्याहारः । एकशः, 'संख्यैकव- चनात्' इति शस् ॥

 अन्यदप्याह-

कामिनीवर्गसंसर्गैन कः संक्रान्तपातकः।
नाश्नाति स्नाति हा मोहाकामक्षाम[१]व्रतं जगत् ॥ ४१ ॥

 कामिनीति ॥ यस्मात् 'आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥' इति वचनात्स्त्रीणां पुरुषापेक्षयाष्टगुणकामानां कामिनीनां नानाजातीयानां वर्गः सङ्घस्तस्य संसर्गैर्योनैः संबन्धैः कृत्वा कः पुरुषः संक्रान्तं प्रविष्टं पातकं यत्र एवंविधो न । अपितु-'संवत्सरात्तु पतति पतितेन सहाचरन्' इति शास्त्रात्कृतपातकस्त्रीसंसर्गात्सर्वोपि प्राणी संक्रान्तपातक एव । तस्मात्काम्यते कामः


  1. 'कामक्षाममिदं जगत्' इति पाठो जीवातुसंमतः