पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२२
सप्तदशः सर्गः।

 अन्यच्चाह-

गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः ।
येषां वः पत्युरत्युच्चैगुरुदारग्रहे ग्रहः ॥ ४४ ॥

 गुर्विति ॥ भो द्विजाः यूयं गुरुतल्पगतौ पित्रादिभार्यासंभोगे विषये पापकल्पनाम् 'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । (एते) महापातकिनः-' इत्यादिवचनानुरोधेन महापातकसंभावनां त्यजत । यस्माद्येषां वो युष्माकं पत्युः स्वामिनो द्विजराजस्य चन्द्रस्य देवानां गुरोः वेदादिपाठयितुः बृहस्पतेः दाराः तारा तेषां ग्रहे संभोगे अत्युच्चैरतितरां ग्रहोऽभिनिवेशः। श्रूयत इति शेषः । वेदादिपाठनाबृहस्पतेर्दैवगुरुत्वम् । तस्मात्तद्भार्यागमने देवस्य चन्द्रस्य दोषलेशोऽपि न । तत्सेवका यूयमपि गुरुतल्पगमनं कामं कुरुतेति भावः । यथोक्तम्-'राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः। राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥' इति। अयमप्युपहासः। गुरुशब्दच्छलेनैवमुक्तम् । 'महः' इति पाठे उत्सवः । अथ च-तेजःसमूहः । गुरुतल्पगमनेऽपि प्रत्यहमुदेत्येव, न तु पतित इत्यर्थः । इन्द्रादिनिकटे वाल्मीकिप्रमुखा द्विजास्तिष्ठन्ति तेषां संबोधनम् । बृहस्पतिभार्यायां गर्भमुत्पाद्य तत्सुतस्वीकारार्थं सोद्यमानिन्द्रादीन्प्रति चन्द्रेण महारणारम्भसंरम्भेण तेजः प्रकटितम् । अनन्तरं ब्रह्मणा गुरुभार्यां त्याजितोऽपि गर्भजं पुत्रं गृहीतवानिति पुराणकथा। 'तल्पं च शयनीये स्यात्तल्पमट्टकलत्रयोः' इति विश्वः॥

 'पुण्यो वै पुण्येन कर्मणा, पापः पापेन' इत्यादिश्रुतिं दूषयति-

पापात्तापा मुदः पुण्यात्परासोः स्युरिति श्रुतिः ।
वैपरीत्यं द्रुतं साक्षातदाख्यात बलाबले ॥ ४५ ॥

 पापादिति ॥ परागता असवः प्राणा यस्य । मृतस्येत्यर्थः। तस्य प्राणिनः इह कृतानिषिद्धाचरणजात्पापात्तापाः दुःखानि, पुण्यादिह कृताद्विहिताचरणजाद्धर्मान्मुदः सुखानि स्युः भवन्तीति श्रुतिराह । साक्षात्प्रत्यक्षेण द्रुतं शीघ्रं वैपरीत्यम् । दृश्यत इति शेषः । प्रयागादौ प्रातर्माघस्नानं कुर्वतो भवदभिमतसुकृतकारिणः पुरुषस्य तदानीमेव दुःखं भवति । भवदनभिमतपरदारसंगमादिपापकारिणस्तदानीमेव सुखं भवतीति वैपरीत्यमनुभूयते । अथच-एवं श्रुतिः श्रवणमात्रम् , नतु तत्र किंचित्प्रमाणम् । किंच मृतस्य किं वा भविष्यतीति को वेद । जीवता तावद्वैपरीत्यमनुभूयते । तत्तस्माच्छ्रुतिप्रत्यक्षयोर्विषये यूयं बलाबले स्वयमेव आख्यात कथयत । भवन्त एव विचारयन्त्वित्यर्थः । प्रमाणयोः परस्परविरोधे सबलत्वेन दुर्बलत्वेन च व्यवस्था क्रियते । ततश्च यथा-प्रत्यक्षानुमानविरोधे प्रत्यक्षं बलीयः, तथा-श्रुतिप्रत्यक्षविरोधे प्रत्यक्षमेव बलीय इति निश्चित्य पापात्सुखमनुभूयत इति पापं सर्वैः कार्यमिति भावः । प्रबलदुर्बलत्वव्यवस्थापकस्य न्यायस्याप्ययमुपहासः॥