पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२५
सप्तदशः सर्गः।

 मृत इति ॥ गतप्राणो नष्टशरीरत्वान्निरन्वयध्वस्तपूर्वानुभवसंस्कारोद्बोधोऽपि पूर्वजन्मान्यनेकजन्मतत्कर्मजात्यादीनि पूर्वमहं ब्राह्मणोऽभूवमित्यादीनि स्मरति । मृते च कर्मणां सुकृतदुष्कृतकर्मणां फलानि सुखदुःखरूपाणि तेषामूर्मयः परम्परा भोगा वा भवन्ति । तदधिकरणा भवन्तीत्यर्थः । तथा अन्येषां ब्राह्मणानां भुक्तैर्भोजनैः कृत्वा मृते ध्वस्तदेहे प्रेते तृप्तिर्भवतीति धूर्तानां परवञ्चनमात्रेण स्वोपजीविनां वार्तया अप्रामाणिकेन वार्तामात्रेणालम् । सा न कार्येत्यर्थः । सर्वमप्येतद्व्यधिकरणत्वादनुपपन्नम् । स्वभोजनादिलाभाय परं प्रतारयन्ति । तस्माद्देह एवात्मेति भावः । ’[१]अन्यभुक्तानि' इति पाठे 'अन्येषां भुक्तानि' इति शेषषष्ठीसमासः॥

 देहातिरिक्तात्मप्रतिपादिकां श्रुतिमप्युपहसति-

जनेन जानतास्मीति कायं नायं त्वमित्यसौ।
त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया ॥ ५४ ॥

 जनेनेति ॥ अतिधूर्तया नितरां परवञ्चनपरया 'तत्त्वमसि' इति ‘स वा एष महानज आत्मा' इत्यादिश्रुत्या प्रयोजककार्त्र्या कायम् 'अस्मि' इति अहंप्रत्ययं जानता 'स्थूलोऽहम् , कृशोऽहम्' इत्याद्यहंप्रत्ययविषयो देह एव, न तु तदतिरिक्तः कश्चिदिति देहमेवात्मानं जानता जनेन प्रयोज्येन अयम् 'अस्मि' इति प्रत्ययविषयः (कायः) त्वं न भवसीति असौ देहः त्याज्यते अहंप्रत्ययविषयत्वेनेति शेषः। जनेन स्वयं कायः अहंप्रत्य- यविषयत्वेन त्यज्यते, श्रुत्या तु तेन त्याज्यत इत्यर्थः । अन्यच्चानुभवविरुद्धमित्थंतया वक्तुमशक्यमप्रामाणिकमहंप्रत्ययविषयमात्मलक्षणं वस्तु ग्राह्यतेऽङ्गीकार्यते । अहो आश्चर्यम् , कष्टं वा । महदनुचितमेतदित्यर्थः । 'देह आत्मभावं परित्यज्य तदन्यस्मिन्नात्मनि नित्यतां गृहीत्वा दीक्षातपआदिभिर्देहं कर्शय, तदतिरिक्तात्मवेदनं कुरु' इति श्रुत्या लोक उपदिश्यत इत्यर्थः । विप्रलम्भकवाक्यत्वेन श्रुतिमात्रमप्रमाणम् । वार्ता मात्रेणालम् । सा न कार्येत्यर्थः । अन्योपि धूतान्येन रत्नादि त्याजयति, काचादि ग्राहयति । कर्तृद्वयस्यानभिहितत्वादुभयत्र तृतीया ॥

 ननु पुत्रेष्ट्या पुत्रस्य प्रत्यक्षोपलम्भाज्ज्योतिष्टोमादेरपि फलस्यानुमानाच्छ्रतिमात्रप्रा-

माण्यात्कथं श्रुतेर्धूर्तत्वमित्याशङ्क्य दूषयात-

एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
हेतुमाहुः स्वमन्त्रादीनसाङ्गानन्यथा विटाः ॥ ५५ ॥

 एकमिति ॥ भवनाभवनाभ्यां संदिग्धयोरर्थयोः पुत्रादिलाभालाभयोर्मध्ये एकमिष्टमनिष्टं वा तावनिश्चितं भावि भविष्यति । तत्र तयोर्मध्ये । तथा सति वा । इष्टस्य पुत्रादेर्जन्मनि लाभे सति विटा धूर्ताः परवञ्चनचतुराः स्वमन्त्रादीन्हेतुं कारणभूतानाहुः । अस्माभी रुद्रजपादि त्वदर्थ कृतम् , तेन त्वया पुत्रादि लब्धमिति वदन्तीत्यर्थः । अन्यथा पुत्राद्यलाभे तु तानेव मन्त्रानसाङ्गानङ्गविकलतया फलस्यासाधकान्प्राचीनपुत्रवि-


  1. 'अन्यभुक्तानि तत्तृप्तिः' इत्येवं मूलपाठः प्रतिभाति ।