पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२६
नैषधीयचरिते

योगादिविपरीतफलकारिणश्वाहुः । सामग्रीसाकल्याभावाद्यथोक्तदक्षिणाभावात्फलं न जातम् , विपरीतं च जातमित्यर्थः । तस्मादृष्टफलपुत्रेष्ट्यादिदृष्टान्तेनादृष्टफलेष्वपि फलकल्पना निरवकाशेति श्रुतिरप्रमाणैवेति भावः ॥

 श्रुतिप्रामाण्यमभ्युपगमवादेनाङ्गीकृत्याप्येकात्मवादिमतमनिष्टापत्त्या दृषयति-

एकस्य विश्वपापेन [१]तापेऽनन्ते निमज्जतः।
कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ॥ ५६ ॥

 एकस्येति ॥ विश्वेषां सर्वेषां परदारगमनजनितेन पापेन हेतुनानन्तेऽक्षये तापे निरयादिदुःखे निमज्जतोऽनन्तदुःखमनुभवतः सतः श्रौतस्य 'एकमेवाद्वितीयं ब्रह्म' 'नेह नानास्ति किंचन' इत्यादिश्रुतिसिद्धस्यैकस्याद्वितीयस्यात्मनः हे भीरो पापाद्भयशील, ते तव एकस्य दुरितेन को भारो गौरवं स्यात् । अपितु पूर्णस्य शकटस्य सूर्पेणेव न कश्चिद्भारो भवेत् । एकात्मवादिमते प्रामाणिकस्यैवात्मनो यदि सकलशरीरोपाधिकृतपापसंबन्धः, तदा तत्फलानन्त्यान्निरयादिदुःखानुभवावसरे तवैकपापेन कृत्वा पापाक्षयराशिभृतस्तस्य न कोपि भारः स्यात् । किंच तैर्यत्पुण्यं कृतम् , तत्त्वयैव कृतमिति पापे कृतेपि तव दोषो नेति यथेच्छं पापं कुर्वित्यर्थः । अपिचात्मैक्यात्स्वपरव्यवहाराभावे परदारत्वपरस्वत्वाद्यभावात्परदारगमनादौ पापलेशस्याप्यभावात्स्वेच्छाचारमेव कुर्वित्यर्थः । भीरो तात्पर्य पर्यालोचनया विना भयशील, इत्युपहासः । तस्मादेकात्मश्रुतिरुपासनपरा ज्ञेया, न तु तात्त्विकीति भावः ॥

 दवपूजादिबुद्धिं निराकररोति

किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि फलत्यदः ।
न्यस्य [२]तन्मूर्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि ॥ ५७ ॥

 किमिति ॥ भो देवपूजक वृन्तात्प्रसवबन्धनात्सकाशाद्धृतमवचितं चम्पकादिपुष्पं तस्माद्धेतोस्ते तव किं प्रयोजनम् । प्रत्युत-दोष एवेत्यर्थः । हि यस्माददः पुष्पं तन्मात्रे वृक्षाग्रवृन्त एव वर्तमानमेव फलति फलरूपेण परिणमते, नतु तेन विना । पुष्पेऽवचिते फलोत्पत्तिप्रतिबन्ध एव भवति, नत्वन्यत्फलमित्यर्थः । अथ देवपूजादौ विनियोगात्साफल्यमिति चेत् । तदप्यसत् । अश्मनः शालग्रामशिवलिङ्गादेः पाषाणस्यैव मूर्ध्नि न्यास्यं यदि चेत्तत्र न्यस्तं सत्फलाय भविष्यतीत्याशयः, तीनन्यस्य शिलातोऽभिनस्य पाषाणसदृशस्य स्वस्य मूर्ध्नि तत्पुष्पं न्यस्य निधेहि । अनन्यस्यैवेति वा । नास्यमेवेति वा । किंच भवन्मते भेदस्य प्रापश्चिकत्वात्परमेश्वरस्य सर्वत्र सत्वाच्छालग्रामादेस्त्वच्छिरसश्चैक्याद्देवपूजापि पृथग्वृथेति स्वशिरस्येव पुष्पाणि क्षिपेत्युपहास इति भावः । न्यास्यं हलन्तत्वापण्यत् ॥


  1. 'तापेनान्ते' इति पाठे 'अन्ते प्रान्तावस्थायाम् अशुभकर्मफलसमये तापेन अशुभकर्मजनितदुःखेन हेतुना
    निमज्जतः' इति व्याख्येयम्-इति सुखावबोधा
  2. 'न्यस्य ते मूर्ध्न्यनन्यस्य' इति वा पाठः कुत्रचिन्मूलपुस्तके।