पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२७
सप्तदशः सर्गः।

 वैराग्यजननार्थमन्यदप्याह-

तृणानीव घृणावादान्विधूनय वधूरनु ।
तवापि तादृशस्यैव का चिरं जनवञ्चना ॥ ५८ ॥

 तृणानीति ॥ हे पुरुष 'मुखं श्लेष्मागारं, स्तनौ मांसग्रन्थी' इत्यादीनि वधूरनु स्त्रीरुद्दिश्य घृणावादाजुगुप्सावचनानि निःसारत्वेन तृणानीव विधूनय त्यज । यतः–तादृशस्य मांसादिमयस्यैव तवापि गर्हितस्यापि स्त्रियोऽनेन प्रकारेण निन्द्या इति चिरंजनवञ्चना लोकप्रतारणा का । अपितु न कार्येति भावः । स्त्रियो व्यभिचारिण्यः पापनिरता इति निन्दावाक्यानि तवापि व्यभिचारिणों न युक्ता इति वा ॥

कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् ।
वेदोपि देवकीयाज्ञा तत्राज्ञाः काधिकार्हणा ॥ ५९॥

 कुरुध्वमति ॥ हे अज्ञा मूर्खा ब्राह्मणा यूयम् अहल्याया जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीत्' इत्यादि स्मरणाद्ब्रह्मविष्णुमहेशादिभिरप्यलङ्घिताम् काम एव देवः, तस्य स्त्रीपारवश्यलक्षणामाज्ञां कुरुध्वम् । यस्माद्वेदोऽपि 'श्रुतिस्मृती ममैवाज्ञा' इति श्रीभगवद्वचनाद्देवकीया आज्ञा । अतः-तत्र वेदरूपायां देवाज्ञायां कामाज्ञातोऽधिका अर्हणा पूजा मान्यता का । अपितु-देवत्वाविशेषाद्वेदाज्ञेव कामाज्ञापि माननीयैवेत्यर्थः । आज्ञाद्वयमपि समानम्, तस्मात्कामाज्ञामपि कुरुध्वम्, नत्वेकत्र पक्षपातः कार्य इति भावः । यद्वा-तत्र द्वयोराज्ञयोर्मध्येऽधिकमर्हणं यस्याः सा का आज्ञा । अपितु पूर्ववदविशेषाद्धे अपि समे एवेत्यर्थः। द्वयोर्मध्ये अधिकार्हणा का इति यूयमेव कथयतेति ब्रह्मादिभिरप्यङ्गीकृतत्वाच्छिष्टपरिगृहीतत्वलक्षणप्रामाण्यात्, प्रत्यक्षसुखहेतुत्वाच्च काम देवाज्ञैवाधिकार्हणा । वेदोहि ब्रह्मादीनामेवाज्ञा, ब्रह्मादयश्च कामदेवाज्ञाकारिणः, ततश्च यदीयाज्ञा भवद्भिरनुष्ठीयते, तैरपि याऽनुष्ठीयते सा भवतां सुतरामनुष्ठेयेति भाव इति वा । पक्षपातात्तारतम्याज्ञानाच्च मूर्खत्वम् । 'वेदो हि' इति च पाठः । कामदेवाज्ञामेव कुरुध्वम्, यस्माद्वेदोऽपि देवाज्ञा । तत्र वेदे अधिका पूजा । अपितु-कामदेवाज्ञैवानुष्ठेया । ब्रह्मादिभिरप्यनुष्ठितत्वादिति वा । 'का विगर्हणा' इति पाठे तत्र कामाज्ञायां का निन्दा कोऽनादर इत्यर्थः । देवकीया गहादिषु 'जनपरयोः कुक्च' इत्यत्र 'दे- वस्येति च वक्तव्यम्' इति वक्तव्याच्छः कुक्च ॥

 श्लोकत्रयेण भीमांसकान्परिहरति-

प्रलापमपि वेदस्य भागं मन्यध्व एव चेत् ।
केनाभाग्येन दुःखान्न विधीनपि तथेच्छथ ॥ ६० ॥

 प्रलापमिति ॥ महता प्रयासेन यस्य प्रामाण्यमुपपादितम्। तस्य वेदस्यैव कंचन भागर्मशं 'सोऽरोदीद्, यदोदीत्' इत्याद्यर्थवादमन्त्रनामधेयात्मकं प्रलापमिवानर्थकवचोरूपं चेन्मन्यध्वे कुरुध्वे । 'आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्'इत्यादिना पूर्व-