पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२८
नैषधीयचरिते

पक्षसूत्रेण प्रतिपादितस्यानर्थक्यस्य विधिना त्वेकवाक्यत्वात्'इत्यादिना सिद्धान्तसूत्रेण स्तुत्यर्थत्वादिनाऽर्थवादादेरुपयोगेऽभिहितेऽपि सार्थक्याभावादनिराकृतत्वादर्थवादादिवेदभागमनर्थकवचनप्रायं चेन्मन्यध्वे । तर्हि बहुधनव्ययायाससाध्यत्वात्, दुः- खजनकान् 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादीविधिभागानपि केन भाग्याभावेन तथा प्रलापरूपान्न इच्छत नाङ्गीकुरुथ। अपितु तानपि प्रलापरूपानेव स्वीकुरुथ इत्यर्थः। सर्वोपि वेदो विधिरूपः प्रलापरूपो वा अस्तु । नत्वर्धजरतीयन्यायः समाश्रयितुं युक्त इति भावः । वेदत्वाविशेषेऽप्यभाग्यमेव वैषम्यहेतुरित्यर्थः । दुःखशब्दस्य नपुंसकत्वेऽपि दुःखं करोतीति ण्यन्तात्पचाद्यचि दुःखानिति ज्ञेयम् ॥

 प्रकारान्तरेणापि मीमांसकानुपहसति-

श्रुतिं श्रद्धत्थ विक्षिप्ताः प्रक्षिप्तां ब्रूथ च स्वयम् ।
मीमांसामांसलप्रज्ञास्तां यूपद्वि[१]पदापिनीम् ॥ ६१ ॥

 श्रुतिमिति ॥ हे मीमांसायां वेदविचारे मांसला परिपुष्टा प्रज्ञा वुद्धिर्येषांते यूयं श्रुतिं वेदं प्रत्यक्षं श्रद्धत्थ आदरेण स्वीकुरुथ । अक्षरमात्रमपि सार्थकं मन्यध्वे । तथा-विक्षिप्ता वादिभिनिराकृता भ्रान्तचित्ताः पूर्वापरानुसंधानविकलाः सन्तः तामेव श्रुतिं यूपसंबन्धिनं द्विपं दापिनी दापयन्ती स्वयमात्मनैवाङ्गीकृतप्रामाण्यामपि प्रक्षिप्तां केनचिद्वञ्चकेन खिलरूपां निक्षिप्तां च ब्रूथ । चकारः पूर्वापरविरोधद्योतनार्थः । पूर्वापरानुसंधानविकलत्वादिविचारचतुरा साध्वी भवतां बुद्धिरित्युपहासार्थं 'मीमांसा-'इ- त्यादि संबोधनम् । मांसला-इत्यनेन च स्थूलदृष्टय आपातग्राहिणो यूयम् , न तु कुशाग्रबुद्धयः इति सूचितम् । ऋत्विजो यज्ञमध्ये यजमानं यज्ञसमापनाग्रहशीलं समाप्तयुत्तरकालभावि स्वाच्छन्द्यं विदित्वा कार्यवत्तावेलायामेव स्वयं 'यूपे यूपे हस्तिनो बद्ध्वा ऋत्विग्भ्यो दद्यात्' इत्येतत्प्रतिपादकानि वेदवाक्यानि यजमानस्य श्रद्धाजननार्थं पठित्वा याचन्ते । प्रत्यक्षश्रुतिविहितदेयान्तरनिदर्शनव्यामोहितश्च स यजमानः श्रद्दधानतया तथैव प्रतिपद्य तेभ्यः प्रयच्छतीति तैरेवैषा स्मृतिः प्रवर्तिता स्यादित्याशङ्क्य 'नेयं वेदमूला' इति 'लोभपूर्वकमेभिरुक्तम्' इति वेदवाक्यानामर्थवादत्वमङ्गीकरोति । ततश्च कानिचिद्वाक्यानि प्रधानानि, कानिचिप्रधानानीत्यर्धजरतीयन्यायस्तद्वस्थ एवेत्यर्थः । 'यूपहस्तिनो दानमाचरन्ति' इतिस्मृतेर्मूलभूता श्रुतिरभिधीयते । कल्पितश्रुतिमूलत्वात्स्मृतिरेव वा श्रुतित्वेनोच्यते । यूपवद् अत्युच्चा द्विपा यूपद्विपाः तान् दापयतीति । वाजपेयादौ हि सप्तदश हस्तिनो रथा दास्यश्च दक्षिणाः । इत्युपलक्षणमेतदित्यन्ये ॥

को हि वेदास्यमुष्मिन्वा लोक इत्याह या श्रुतिः ।
तत्प्रमाण्यादमुं लोकं लोकः प्र[२]त्येतु वा कथम् ॥ ६२ ॥

 कोहीति ॥ 'को हि तद्वेद यद्यमुष्मिंलोकेऽस्ति वा न वा' इति दिश्वतीकाशान्क-


  1. 'दायिनीम्' इति पाठे यूपद्विपानां ‘दायो दानं विद्यते यस्याम्' इति व्याख्येयम्-इति सुखावबोधा।
  2. 'प्रत्येति' इति पाठो जीवातु-सुखावबोधाव्याख्यातः ।