पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२९
सप्तदशः सर्गः।

रोति' इत्यादिर्या श्रुतिः, अमुष्मिँल्लोके परलोके विषये सुखादिकमस्ति वास्त्येव नास्त्येव इति वा हि निश्चितं को वेद । अपि तु न कोपि । इत्याह ब्रवीति । तस्याः श्रुतेः प्रामाण्यादमुं लोकं परलोकं लोकः परीक्षकोऽस्मदादिः कथं वा कथमिव प्रत्येतु विश्वासेन निश्चिनोतु । अपितु न कोपि । यदीयास्तित्वनास्तित्वयोः श्रुतेरेव संदेहस्तत्प्रामाण्यात्पामरो भवादृश एव परलोकं मन्यते, नतु प्रामाणिकः कश्चिदिति भावः ॥

 स्मृतिप्रामाण्यमपि दूषयति-

धर्माधर्मौ मनुर्जल्पन्नशक्यार्जनवर्जनौ ।
व्याजान्मण्डलदण्डार्थी श्र[१]दधायि मुधाबुधैः ॥ ६३ ॥

 धर्मेति ॥ बहुधनव्ययायाससाध्यत्वात्, शीतभयात्तीर्थस्नानाद्यशक्तत्वात्, अग्नौ चरणसंतापनादिरूपतया तत्तदिन्द्रियवेगस्य परिहर्तुमशक्यत्वात्, सुखानुभवमूलत्वाञ्च, क्रमेणाशक्यमर्जनं करणं, वर्जनं च ययोस्ती धर्माधर्मौ बुद्धिपूर्वं जल्पन्बहुधा प्रतिपादयन्मन्वन्तराधिपतिरादिराजो मनुर्मुख्यस्मृतिकर्ता ब्रह्मपुत्रः स्वायंभुवः व्याजाद्धर्माधर्मोपदेशकस्मृतिप्रणयनमिषेण विधिनिषेधातिक्रमनिमित्तप्रायश्चित्तद्वारा मण्डलस्य राष्ट्रस्य लोकस्यापराधं निमित्तीकृत्य दण्डार्थी द्रव्यमभिलाषुको यतः, तस्माद्बुधैः पण्डितंमन्यैर्मुधा वृथैव श्रद्धायि आहता।अधर्माचरणं सुकरमित्यधर्ममेव सर्वः करोति । ततश्च येन केनाप्युपायेनार्थग्रहणोपाय एव दण्डो मनुनाऽभिहितः, नतु धर्म इत्यर्थः । अबुधैरिति वा । मनुवचनमूलत्वात्स्मृतिमात्रस्याप्रामाण्यमुक्तम् ॥

 पुराणप्रामाण्यं दूषयति-

व्यासस्यैव गिरा तस्मिश्रद्धेत्यद्धा स्थ तान्त्रिकाः।
मत्स्यस्याप्युपदेश्यान्वः को मत्स्यानपि भाषताम्॥६४ ॥

 व्यासस्येति ॥ दाशदारिकाव्याभिचारजातस्य भ्रातृजायायां पुत्रोत्पादिन इत्यादिशीलस्य व्यासस्यैव कवित्वरूपया गिरा तस्मिन्धर्मे । परलोके वा । व्यास एव वा । श्रद्धा भावना आस्तिक्यबुद्धिरिति इत्येतस्माद्धेतोरद्धा निश्चितं यूयं तान्त्रिका युक्तिज्ञा वाक्यविचारचतुराः स्थ भवथ । विरुद्धलक्षणया-एवं विगीतेन व्यासेन प्रतिपादिते धर्मे परलोके तस्मिन्वा येषामास्तिक्यबुद्धिः, ते यूयं मूर्खतमा इति भावः। अथच-तान्त्रिकाः कुविन्दतुल्या मूर्खा इत्यर्थः। व्यासस्येत्येकवचनेन, एवकारेण विगीतत्वं सूचितम् । मूलापरिशुद्ध्या भारतादीनां पुराणानां चोपहासः कृतः।मत्स्यपुराणं तु मत्स्यरूपधारिणा श्रीविष्णुना मनवे प्रोक्तमिति तत्पृथगुपहसति -मत्स्यस्य उपदेश्यान्वः युमान्मनुप्रभृतीन्को भाषतां युष्माभिः सह संवादं कः करोतु । यतः-मत्स्यानपि को भाषताम् । मत्स्या अपि संवादार्हा न भवन्ति । तदुपजीविनस्तच्छिष्या भवन्तस्तु दूरे इति को भाषताम् । युष्मान्मन्वादीन्मत्स्यान्को वदतु । अपितु न कोपि । यतो मत्स्यस्योपदेश्यान् । जलस्थलचारिभ्यो यो हीनो मत्स्यः, तस्यापि शिष्यास्तन्निदेशकारिणः। ततश्चोपदेशकापेक्षयोपदेश्यस्य हीनत्वान्मत्स्यशब्देनापि नाभिधेया इति भावः।


  1. 'श्रद्दधे वा' इति पाठः सुखावबोधाव्याख्यातः ।