पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३०
नैषधीयचरिते

एवं कूर्मपुराणादीनामुपहासः । अथ च मनुसंबन्धित्वेन सर्वेपि मानवशब्दवाच्या यथा, तथा मत्स्यसंबन्धिनो मात्स्यशब्दाभिधेयत्वमेव युक्तम्, नतु मत्स्यशब्दाभिधेयत्वमिति को मत्स्यानपि भाषतामिति युक्तमुक्तमिति व्याख्येयम् । तान्त्रिका इति 'तन्त्रमधीते वेद वा' इत्यर्थे वसन्तादेराकृतिगणत्वाहा । मत्स्यस्येति 'कृत्यानाम्-' इति कतरि षष्ठी॥

 पूर्वोक्तमेव व्यासस्याप्रमाणत्वं श्लोकद्वयेनाह-

पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।
निनिन्द तेषु निन्दत्सु स्तुवासु स्तुतवान्न किम् ॥ ६५ ॥

 पण्डित इति ॥ पण्डितो बुद्धिमान् , अत एव कविरौत्प्रेक्षिकस्यार्थस्य वर्णकः, तथा-पाण्डवानां युधिष्ठिरादीनां चाटुनि प्रियवचने पटुः एवंभूतःस भवद्भिराप्ततमत्वेनाङ्गीकृतो व्यासस्तेषु पाण्डवेषु दुर्योधनादीन्निन्दत्सु सत्सु न निनिन्द किम् । तथा-- तेषु श्रीकृष्णादीन्स्तुवत्सु सत्सु न स्तुतवान्किम् । तेषु निन्दत्सु स्वयमपि निनिन्द, तेषु स्तुवत्सु स्वयमपि तुष्टावेति पूर्वविशेषणयुक्तस्यापि व्यासस्य पराधीनत्वादनाप्तत्वाच्च तत्प्रणीतं भारताद्यप्रमाणमेवेति भावः। अन्योपि पण्डितः प्रभुचित्तानुगुणमेव व्यवहरति, तद्वदयमपीत्यर्थः ॥

न भ्रातुः किल देव्यां स व्यासः कामात्समासजत् ।
दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम् ॥ ६६ ॥

 नेति ॥ स भवदीयो व्यासो भ्रातुर्विचित्रवीर्यस्य देव्यां महिष्यां कामात्सरपरवशत्वादनुरागान समासजव्यवहरति स्म । किलेत्युपहासे श्रुतौ वा । अस्मद्बुद्ध्यतावत्कामादेव संगतः । पौराणिकास्तु-देवरात्सुतोत्पत्तेधर्म्यत्वात्तस्यां सुतोत्पादनार्थं मात्रा- ज्ञप्तस्तस्यां सक्त इति वदन्ति । तस्मात्तद्यथा, तथास्त्वित्यर्थः । तदा पुत्रोत्पादनोपक्षिते काले दास्यां रत आसीदिति यत्प्रसिद्धम् । तत्र दासीरतेऽपि मात्रा सत्यवत्या अदेशि आदिष्टः किम् । कथयतेति प्रश्नकाकुरुपहासार्था । अपि तु तत्र तावन्नादिष्टः, तस्मादुभयत्रापि स्मरपरवशत्वादेव प्रवृत्तः। एवंविधस्यानाप्तत्वात्तद्वचनमप्रमाणमेवेति भावः । समासजत्, 'दंशसञ्ज-' इति न लोपः॥

 इदानी देवद्विजगोभजनं दूषयति-

देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृ्तौ।
गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माधरीकृतः ॥ ६७

 देवैरिति ॥ देवैर्ब्रह्मादिभिः, द्विजैर्याज्ञवल्क्यादिभिश्च कृता ग्रन्थाः पुराणानि स्मृतयश्च त एव येषां भवादृशां वैदिकानां तदादृतो तेषां देवानां द्विजानां चाहतावादरे विषये पन्थाः। देवा ब्राह्मणाश्चावश्यं भजनीया इत्युपदेशपराः प्रमाणमिति यावत् । स्वपूजार्थमेव तैर्ग्रन्था निर्मिताः, तद्वचनप्रामाण्याद्देवादीनाद्रियन्ते एवंभूता मूर्खा ये,