पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३१
सप्तदशः सर्गः


तैर्युष्माभिस्तद्ग्रन्थप्रामाण्यादेव गां पशुरूपां सुरभिं नतैः सद्भिस्ततः पशोर्गोरपि सकाशादात्मा स्वरूपं व्यक्तं स्पष्टं नाधरीकृतः किम् । नम्रः । अथच-हीनः । न कृतः किम् । अपितु-कृत एव। नमस्कार्यापेक्षया नमस्कर्तुर्हीनत्वात्पशोरपि सकाशाद्भवन्तो मूर्खतमा इत्यर्थः । व्यक्तं मन्ये इति यावदिति वा । स्वार्थपरपरवचनस्याप्रमाणत्वाद्देवब्राह्मणसुरभिभजनं निर्मूलत्वात्त्याज्यमिति भावः । देवैर्द्विजैः कृता ग्रन्था येषां वः पन्थाः प्रमाणम्, तैर्भवद्भिस्तस्य पथस्तेषां देवादीनां वा, ग्रन्थादीनां वा,आदरणनिमित्तं गां नतैः। ततोऽप्यात्मेति पूर्ववत् ॥

 इदानीं परलोकमङ्गीकृत्यापि यज्वनां ब्रह्मचर्यादि परिहरति-

साधुकामुकतामुक्ता शान्तस्वान्तैर्मखोन्मुखैः ।
सारङ्गालोचनासारां दिवं प्रत्यापि लिप्सुभिः ॥ ६ ॥

 साध्विति॥ शान्तं विषयभोगपराङ्मुखं स्वान्तं चित्तं येषां तैर्मखोन्मुखैर्गृहीतदीक्षैरपि यज्ञेषु सोत्साहं प्रवृत्तैर्याज्ञिकैः कामुकता संभोगलोभिता यदमुक्ता न त्यक्ता, तत्साधु युक्तम् । यद्वा-साध्वी सुखकारिणी सा चासौ कामुकता च सा न मुक्ता। शान्तस्वान्तैर्यज्वभिः कामुकता साधु मुक्ता त्यक्ता । साध्विति काक्वा । विरुद्धलक्षणया नैव मुक्ता, किंतु संभोगैकनिष्ठा एव त इति व्याख्येयम् । सर्वत्रापि हेतुगर्भं विशेषणमाह-किंभूतैः-सारङ्गलोचनाभिः सुन्दरीभिः सारां श्रेष्ठाम् । ता एव सारः श्रेष्ठः पदार्थों यस्यां तादृशीं वा । दिवं प्रेत्यापि मृत्वापि लिप्सुभिः । रम्भादिकाम्य(मा)यैव बहुधनव्ययायाससाध्यान्यज्ञान्ये कुर्वन्ति, तैः कामुकता नैव त्यक्ता । अन्येषां तु यावज्जीवमेव कामुकत्वम् । यज्वनां तु मरणान्तरमपीति प्रेत्यापीत्यनेन सूचितम् । तस्माद्दीक्षासमयेऽपि ब्रह्मचर्याङ्गीकरणेनात्मा न वञ्चनीय इति भावः । दिवं 'न लोका-' इति षष्ठीनिषेधाद्वितीया ॥

 एतदेवोपजीव्याह-

कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥ ६९ ॥

 क इति ॥ प्राज्ञाः प्रकर्षेणाज्ञा भो मूर्खाः, तस्माच्छमः शान्तिः कः । अपि तु न कोपि । शमाङ्गीकरणेन परलोकसाधनेपि काम्यमानकमनीयकामिनीसंभोगफलत्वाद्यर्थैव शान्तिः । तस्मान्न कार्येत्यर्थः। तर्हि किं कार्यमित्यत आह-प्रियायास्तरुणरमणीयरमण्याः प्रीतौ प्रेम्णि तस्याः सुखोत्पादने विषये परिश्रमः भूयान्प्रयासः कार्यः क्रियतां कर्तव्यः। शान्तिः का, अपि तु न कापि । भोः प्राज्ञा बुद्धिमन्तस्तारतम्यविचारचतुराः, प्रियाप्रीतौ प्रयासः कार्यः सद्यः सुखहेतुत्वादिति वा।परस्त्रीगमने लोकान्तरे निरयादिभयं भविष्यतीत्याशङ्कयाह-भस्मीभूतस्य मृतस्य भूतस्य जातस्य । देहिनो वा । पुनरागमनं लोकान्तरे क्रिम्यादिदेहप्राप्तिरिति यत्, स भ्रमः । परलोकस्यैवाभावात्, तत्सद्भावेऽपि च देहस्यैवात्मत्वात्, तस्य च भस्मीभूतत्वात्केन नरकादि भुज्यते । तस्माद्यावज्जीवं यथेच्छं सुखं भोक्तव्यमिति भावः । 'प्रियाप्राप्तौ' इति च पाठः॥