पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३२
नैषधीयचरिते

मोक्षेधिकाराभावाद्ब्रह्मचर्यपरित्यागेन काम एव सेवनीय इति शब्दच्छलेन वृद्धसमत्या स्वीयं मतं द्रढयति- .

उभयी प्रकृतिः कामे स[१]ज्जेदिति मुनेर्मनः ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥७०॥

 उभयीति ॥ अपवर्गे तृतीया' इति भणतः पाणिनेरपि मुनेरुभयी प्रकृतिः स्त्रीपुंसलक्षणा द्वयी व्यक्तिः कामलक्षणे पुरुषार्थे मैथुने मिथुनधर्मे सज्जेदासक्ता भवेदिति मनोन्तःकरणाभिप्रायः। लक्ष्यत इति शेषः । अयमाशयः- 'अपवर्गे तृतीया' इति वदतः पाणिनेर्मैथुनधर्मेऽशक्तेन नपुंसकेन तीर्थयात्राब्रह्मचर्यादिद्वारा मोक्षे प्रयतितव्यम्, स्त्रीपुंसलक्षणा व्यक्तिर्मैथुने शक्तत्वात्कामभोगेऽधिकरिणी, न तु तीर्थयात्रादिद्वारा मोक्षे इति । तस्मात्कामाज्ञैव कार्येत्यर्थः । न केवलमस्सदाचार्यस्यैव संमतम्, किंतु भवदीयस्य पाणिनेरपीत्यपिशब्दार्थः। अथ चैवंवदतः पाणिनेरप्ययमाशयः-धर्मार्थलक्षणा व्यक्तिः। अथ च-पूर्वप्रयोज्यत्वात्प्रकृतिः कामे संबद्धा भवेत् । 'धर्मार्थकाममोक्षाः स्युः-' इत्यादौ कामादव्यवहितपूर्वत्वेन तस्या उक्तत्वात् । तृतीया तु कामलक्षणा व्यक्तिः। अथ च-पूर्वप्रयोज्यप्रकृतिरपवर्गे संबन्धुमर्हा । अपवर्गादव्यवहितपूर्वत्वेन तस्या उक्तत्वात् । तस्मादपवर्गे निमित्ते कामाख्या तृतीयैव व्यक्तिर्युक्तेत्युक्तत्वात् । मोक्षमार्गं प्रति कामस्यैव हेतुत्वात्प्रियाप्रीतिरेव सुतरां कार्येति भावः । अपवर्गः फलप्राप्तिरि(ती) मंसूत्रार्थं शब्दच्छलेनान्यथोत्प्रेक्ष्य वृद्धसंमतिः स्वीयमतसमर्थनार्थं दर्शिता । 'तृतीयाप्रकतिःषण्ढः' इत्यमरः।उभयीत्यत्रायचः स्थानिवत्त्वात्तयग्रहणान्ङीप् ।सज्जेत,अर्हार्थे लिङ्॥

 गङ्गास्नायिनो दूषयति-

बिभ्रत्युपरियानाय जना जनितमज्जनाः ।
विग्रहायाग्रतः पश्चात्वरोरभ्रविभ्रमम् ॥ ७१ ॥

 बिभ्रतीति ॥ उपरि यानाय स्वर्ग गन्तुम् । अथ च-ऊर्ध्वं देशं गन्तुम् ।जनितमज्जनाः कृतगङ्गास्नानाः। अथ च -कृताधोगमनाः । जना अग्रतः विग्रहाय युद्धाय पश्चाद्गत्वरः पश्चाद्गमनशील उरभ्रो मेषस्तस्य विभ्रमं सादृश्यं बिभ्रति धारयन्ति ।मज्जनादूर्ध्वं गमनं विरुद्धमिति विपरीतार्थकारित्वान्मेषवन्मूर्खा एवेति । गङ्गास्नानेन स्वर्गो भवतीति भ्रान्तिरेवेति भावः। 'विग्रहस्य' इति पाठे उपरियानाय कृतगङ्गास्नाना जना मार्गे गच्छतो मेषस्य भ्रान्तिं सादृश्यं वा धारयन्ति । शीतबाधया नीचग्रीवतया गमनाच्छरीरस्याग्रतः शिरोदेशे पश्चात्कटिदेशे च हस्तयोर्धारणात्कृतगङ्गास्नानानां गङ्गास्मानसमयेऽपि मषेतुल्यत्वम् । तथा जलमध्येऽघमर्षणवशाद्दक्षिणकरेण प्राणानायच्छतः पृष्ठस्थितवामहस्तस्य नीचग्रीवतया पुरः सादृश्यम्, पश्चास्थितहस्तस्य च पुच्छसादृश्यमिति मेषतुल्यास्ते जनाः। उच्चैर्जिगमिषोर्नीचैर्भावस्य विरुद्धस्य कारणादुपहास इति व्याख्येयम् । यानाय विग्रहायेति च 'तुमर्थाच्च-' इति च[२]तुर्थी ॥


  1. 'सजेत्' इति पाठे सञ्जधातोर्नकारस्य 'दंशसञ्ज-' इति लोपः ।
  2. 'उराभ्राणां मेषानां विभ्रममिव वि- भ्रमं चेष्टां बिभ्रति' इति निदर्शनालंकारः । सचोर्ध्वगमनायाधोः गच्छन्त इति विचित्रालंकारोत्थापित इति संकरः । तेन तेषामविमृश्यकारित्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः