पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३६
नैषधीयचरिते

दिति संबन्धः । वैशेषिकादयो यथा कृतकत्वाद्धटवदनित्यं शब्दं वदन्ति । मीमांसका निरवयवत्वादात्मवन्नित्यं शब्दं वदन्ति । तत्रोत्तरेण पूर्वप्रदर्शिते दोषविशेषे पूर्वस्य यथाऽप्रामाण्यं तथेत्यर्थः। सत्प्रतिपक्षानुमाने यथाऽप्रामाण्यं द्वयोरपीत्यर्थः। सप्तम्यर्थे वतिः। तर्क्य॑ते निश्चीयतेऽर्थों यैस्ते तर्का अनुमानानि तेषामप्रतिष्ठया समबलद्वितीयसद्भावेनानिश्चितस्वरूपतयेत्यर्थ इति वा व्याख्येयम् । गगनं नित्यममूर्तत्वादात्मवत्; गगनमनित्यमसदादिबाह्येन्द्रियग्राह्यगुणाधारभूतत्वाद्धटवदिति सत्प्रतिपक्षानुमानयोरिवेत्यर्थः॥

 अन्यच्चाह-

अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः।
निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥ ८०॥

 अक्रोधमिति ॥ क्रोधना अकारणरोषणा ये तपोधनाः तपासर्वस्वा दुर्वास प्रभृतयस्ते क्रोधो बहुनर्थकारित्वात्सर्वथा त्याज्य इत्यक्रोधं क्रोधाभावमन्यैः प्रयोज्यैः शिक्षयन्ति । अन्ये क्रोधाभावं शिक्षन्ते, तान् क्रोधो न कार्य इति प्रयोजयन्त्युपदिशन्तीति यावत् । स्वयं तु क्रुद्धा यत्किचिदाचरन्ति अन्यांस्त्वेतदुपदिशन्तीत्युपहासः । तथा-- येऽतिनिर्धनास्ते धनायैव स्वस्य धनप्राप्त्यर्थमेव लोहादिधातूनां संबन्धिनं वादं स्पष्टं वचनमन्योन्यरिपुमित्रभावशानेन धातूनां संयोगात्स्वर्णरूप्यादि मया कर्तुं शक्यते,मदुपदेशात्त्वमपि कुर्वित्येवंरूपं धातुवादमुपदिशन्ति एवंशीला भवन्ति । परं तु स्वस्सै किचित्तेन दातव्यमित्येवं परप्रतारणबुध्धैव नतु तत्त्वतः । यतः स्वयं निर्धनाः। इति हेतुः । तादृक्सामर्थ्यसद्भावे तेषामधनत्वं न युज्यते । ततश्च 'यः स्वयमतीर्णः स कथं परास्तारयति' इत्यनेन धातुवादिनामप्युपहासः । अन्यैः प्रयोज्यकर्तुरनभिहितत्वात्कर्तरिततीया । क्रोधनाः 'क्रुधमण्डार्थेभ्यश्च' इति युच्॥

 इदानी दानधर्मं दूषयति-

किं वित्तं दत्त तुष्टेयमदातरि हरिप्रिया।
दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलिः ॥११॥

 किमिति॥ भोजना यूयं वित्तं स्वर्णादि यज्ञादौ दक्षिणात्वेन पात्रेभ्यः किमिति दत्त । अपितु-कस्मैचिदपि न दयेम् । यस्माद्-इयं हरिप्रिया विष्णोः प्रेयसी संपद्रूपा लक्ष्मीरदातरि अकृतदानोपभोगे कृपणे तुष्टा प्रीति प्राप्नोति । तत्रैव वसतीत्यर्थः । दाने बाधकमाह-यस्मात् मुग्धो मूर्खो दानव्यसनपरः, तथोदविचारशून्यः स्मृतिपुराणा दौश्रद्धावांश्च बलिः सर्वं धनं श्रीवामनाय दत्त्वा बन्धनं लब्धवान् । वाक्पाशेन बद्धः सपातालप्रवेशरूपं बन्धनं प्राप्तवानिति पुराणकथा । दानं कर्तव्यमित्यत्र स्मृत्यादिकमेव प्रमाणम्, दानमशुभोदर्कं जातमित्यत्रापि तदेव प्रमाणम् । तथाच-कर्तद्रव्यपात्रशुद्धयादियुक्तेऽपि दानविधौ सति विरुद्धफलदर्शनात् अदातरिच लक्ष्म्याः स्थैर्यदर्शनादन्वयव्यतिरेकाभ्यां दानधर्मः सर्वथा त्याज्य एवेत्युक्तमिति भावः। हरिप्रियेत्यनेन श्रीहरिणाऽपि याचकत्वाङ्गीकारालक्ष्मीप्रीत्यर्थमदातृत्वमेवाङ्गीकृतमिति च सूचितम् ॥