पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३८
नैषधीयचरिते

सक्रोधतां दधे । सकोपोऽभूदित्यर्थः । अनन्तरमुच्चैर्नितरां तारस्वरमित्यवोचत् । इति किम्-एतेषु मध्ये अनिश्चितरूपोऽयं कस्कः श्रुत्यादिमूलानि धर्मरहस्यभूतानि मर्माणि वेददूषणात्कृन्तति छिनत्ति । कोयं कोयमेवं भाषत इति वक्तृविशेषनिश्चयाय कोपाभिव्यञ्जकसंभ्रमोक्तौ कस्कशब्दः कस्कादित्वात्साधुः ॥

 क्रोधमेव द्योतयन्वेदप्रामाण्यं प्रतिजानीते-

लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरकरे।
क इत्थं भाषते पाकशासने मयि शासति ॥ ८५॥

 लोकेति ॥ पाकशासने पाकासुरमर्दने मयि त्रयीनेत्रां प्रसिद्धचक्षुर्द्वयागोचरार्थगोचरीकरणसमर्थवेदत्रयरूपनेत्रां वेदविहिताचरणवेदनिषिद्धवर्जनकारिणीं लोकत्रयीं धर्मस्थापनपूर्वं शासति परिपालयति सति क इत्थमेवं सकलधर्मदूषणप्रकारेण भाषते । किंभूते-वज्रवीर्येण स्फुरन्प्रकाशमानः करो यस्य तस्मिन् । वज्रेत्यादिना वेदादिनिन्दकस्य कण्ठच्छेदसामर्थ्यं स्वस्य सूचितम् । मयीति करेण हृदयस्पर्शनपूर्वक्रोधाहंकाराविष्काराभिनयः। 'वज्रहस्तः पुरंदरः' इत्यादिवाक्यप्रतिपाद्ये मयि प्रत्यक्षदृश्ये सति श्रुतिप्रामाण्यं को वान्यथाकर्तुं समर्थ इति 'वज्रवीर्य-' इत्यनेन विग्रहवत्त्वं सूचितम् । 'ग्रावोन्मज्जनवत्-' 'अग्निहोत्रं त्रयी-' इत्यादिवेदाप्रामाण्यप्रतिपादनं चार्वाकवाक्यं दूषितमिति शेयम् । शासति मयि शासतं मामनादृत्येत्यनादरसप्तमी वा ॥

 श्लोकद्वयेन 'शुद्धिवेशद्वयी-' इत्यादि यज्जातिदूषणं कृतं, तत्परिहरति-

वर्णासंकीर्णतायां वा जात्यलोपेऽन्यथापि वा।
ब्रह्महादेः परीक्षासु भङ्गमङ्ग प्रमाणय ॥ ८६ ॥

 वर्णेति ॥ अङ्ग रे चार्वाक,ब्राह्मणादिवर्णानामसंकीर्णतायां सत्यामन्योन्ययोनिसंकराभावे सति यो जात्यलोपो ब्राह्मणादिजातेर्लोपाभावः सद्यवहारविषयत्वं तस्मिन्वाविषयेऽन्यथापि वर्णसंकराजात्यभावे वा विषये परीक्षासु शुद्धत्वादिज्ञापकेषु स्मृत्याद्युक्तेषु जलानलादिदिव्येषु विषये ब्रह्महादेर्ब्राह्मणक्षत्रियादिवधकारिणोऽभियोज्यस्य भङ्गं पराजयं प्रमाणय संदिग्धस्यार्थस्य कोट्यन्तरनिरासननिश्चायकं कुरु । यदि ब्राह्मणत्वादिशुद्धिर्न स्यात् , तर्हि ब्रह्मवधादौ कृतेपि ब्रह्महा नास्मीति प्रतिज्ञाते च लिङ्गभूतो भङ्गो न स्यात् । भवति च तावत् , तस्माद्भङ्गेनैव हन्यमानस्य तत्पित्रादिपरम्परायाश्चासंकीर्णत्वाब्राह्मण्यादिजातेरस्तित्वं कथितम् । यत्र च संकराज्जातिशुद्धिर्नास्ति तस्य वधादौ कृतेपि ब्रह्महत्यादिप्रतिज्ञाकृतो भङ्गो नास्त्येवेति वर्णसंकराजातिलोपे व्यतिरेकमुखेन भङ्ग एव प्रमाणं धूम इव वह्नयभावेपीत्यर्थः । अङ्गेति प्रातिकूल्यद्योति संबोधनम् । मिथ्यातत्त्वपरीक्षायामभियोक्तुर्भङ्गेऽभियोज्य(स्य)जातिशुद्धिः पातित्याभावश्व । अभियोज्यभङ्गे तु हन्यमानादेर्जातिशुद्धौ सत्यामप्यभियोज्यस्यैव संकीर्णजातित्वं पातित्यं चेति निश्चयसिद्धर्भङ्गमेव प्रमाणयेत्यर्थ इति व्याख्येयम् । यथामति व्याख्या ज्ञातव्या॥