पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४०
नषधीयचरिते

क्यापनयनात्स्वरूपहानेर्धिक्कार एव कृत इत्यर्थः । जलानलपरीक्षादौ ते तवापि यतः संवादः संप्रतिपत्तिरस्ति । तेन कारणेन संजातगलहस्तमालिङ्गितकण्ठं नास्तिक्यं यस्यां तां स्वीकृतनास्तिक्यां बुद्धिं त्वं धिक्कुर्वित्यर्थ इति वा । अत्र गलहस्तशब्दः परिरम्भपरः । यतस्तवापि संवादोस्ति । तेन स्वीयां धिग्धियं नास्तिक्यवादादुष्टां बुद्धि निर्वासितनास्तिक्यां कुर्विति वा । कुत्सिता रुतिः शब्दो यस्य तत्संबोधनं कष्टद । तथा अविद्यमाननतेऽविनीत चार्वाक वैदिके जलानलपरीक्षादौ यस्मात्संवादोऽस्ति तस्मादाश्लिष्टनास्तिक्यां नास्तिकमतिं धिक् । सा निन्द्येत्यर्थ इति यत्तदोः संबन्धेन वा व्याख्येयम् । नास्ति मतिरस्येत्यर्थे 'अस्ति नास्ति दिष्टं मतिः' इति ठकि नास्तिकः। मतिः परलोकविषया । तद्भावो नास्तिक्यम् । ब्राह्मणादित्वात्ष्यञ् ॥

 इदानीं 'मृते कर्मफलोर्मयः' इत्यादीनि वाक्यानि दूषयति-

सत्येव पतियोगादौ गर्भादेरध्रुवोदयात् ।
आक्षिप्तं नास्तिकाः कर्म न किं मर्म भिनति वः ॥८९॥

 सतीति ॥ पतियोग ऋतौ स्त्रिया भर्तृसंबन्धः शुक्रशोणितसंनिपातलक्षणः, अयुग्मासु गमनं निषिद्धतिथ्यादिवर्जनमेतदादिर्यस्यैतादृशे बीजक्षेपादौ कर्षणजलसेकादौ च वर्तमान एव दृष्टकारणसामग्र्यां सर्वदा सत्यामपि गर्भादेरभुवोदयादनिश्चितादुद्भवात्कस्मिंश्चित्कालेऽनुत्पत्तेहेंतोराक्षिप्तमलौकिकस्य परलोकसाधनस्याभावे दृष्टकारण- सामग्रीत एव सदा स्यात् , न चैवमस्ति, तस्माद्धर्माधर्मरूपमदृष्टं कारणान्तरमप्यस्तीत्यापत्तिप्रमाणकं कर्म शुभाशुभफलकमदृष्टं भो नास्तिका अवैदिकत्वाद्रष्टुमनर्हाः, वो युष्माकं मर्म हृदयं किं न भिनत्ति, अपितु विदारयत्येव । कुतो हेतोर्न भिनत्तीति वा । एतन्निदर्शनेन सचेतसो हृदयेन विदरीतुं युक्तम् । तन्न जातमित्याश्चर्यम् । मूर्खतमा भवन्त इत्यर्थः । कर्म वो मर्म दर्शनरहस्यरूपं न किं दूषयति, किंतु दूषयत्येवेति वा । सर्वोद्देशेन नास्तिका इति बहुवचनम् । गृहस्थास्त्रि[१]चतुरासु पत्नीषु सतीष्वपि पुत्राद्यसंभवे एवं वदन्ति-अस्माभिरपत्यप्राप्तिहेतुकं कर्म प्राङ्न कृतम् । अजातसम्यक्प्रेतकृत्येनास्मद्वंश्येन केनचित्प्रेतेन प्रतिबन्धः कृतः, तस्मादपत्यं न भवतीत्यादि वा कथयन्ति। तस्माल्लोकप्रवादपारम्पर्यादापत्तिरदृष्टं कारणान्तरमङ्गीकरणीयम् । आदिशब्दाभ्यां कृषिवाणिज्यस्वामिसेवादिव्यवसायास्तत्फलावाप्तयश्च व्याख्याताः ॥

 'मृतः स्मरति-' 'अन्यभुक्तैर्मृते तृप्तिः-' 'संदेहेप्यन्यदेहाप्तेः-' इत्यादेरुत्तरमाह-

याचतः स्वगयाश्राद्धं प्रे[२]तेस्याविश्य कंचन ।
नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम् ॥ ९०॥

 याचत इति ॥ पापवशादप्राप्तसद्गतेः पिशाचत्वादियोनिं प्राप्तस्य स्वसंबन्धिनम् , उदासीनं वा, यं कंचनाविश्य सूक्ष्मरूपेण तच्छरीरमधिष्ठाय स्वसंबन्धि गयाश्राद्धं निजदुर्गतिपरिजिहीर्षया गयायां श्राद्धं प्रयागे माघस्नानादिजन्ये पुण्यविशेषं याचतो मम


  1. 'त्र्युपाभ्यां चतुरोऽच्' इति वार्तिकेन डचं बाधित्वाऽच् ।
  2. 'भूतस्येति' सुखावबोधासंमतः पाठः