पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४१
सप्तदशः सर्गः।

सद्गतिप्राप्त्यर्थमिदं करणीयमिति प्रार्थयमानस्य एवं कृते एनं मोक्ष्यामीति वदतः प्रेतस्य संबन्धिनीर्नानादेशेभ्य आगता जनास्तेभ्य उपज्ञाः श्रुताः, तैर्वा ज्ञाताः सत्यत्वेन सर्वेषां संमताः कथाः कथं न प्रत्येषि तासु कथं न विश्वसिषि, अपितु नानाविधप्रामाणिकजनसंवादसिद्धत्वात्पूर्वजन्मकथनात्पूर्वं मयात्रैतावत्सुवर्णादि निक्षिप्त तत्पश्यतेति निध्यादिदर्शनसंवादाद्देशान्तरकालान्तरप्रवृत्तिकथनाद्नयाश्राद्धादौ कृते तस्य सद्गतेरनुमानाच्च ताः सर्वथा विश्वसितुं योग्या इत्यर्थः । एतेन तीर्थादिप्रभावविशेषपरलोकदेहान्तरप्राप्तिधर्माधर्ममूलस्वर्गनरकादिप्राप्तीनां प्रामाण्यं समर्थितम् । नानादेशजन उपज्ञोऽनुभविता यासां ताः सर्वसाक्षिका इत्यर्थः ॥

 'को हि वेद-' इत्यादरुत्तरमाह

नीतानां यमदूतेन नामभ्रान्तरुपागतौ।
श्रड्वत्से संवदन्तीं न परलोककथा कथम् ॥ ९१ ॥

 नीतानामिति ॥ प्राणापकर्षणार्थं यमेनैव प्रेषितेन यमदूतेन देवदत्तमानयेत्यादिष्टे समाननामतया भ्रान्तेर्हेतोः स्थूलशरीराल्लैङ्गिकं शरीरमाकृष्य यो देवेनानायितः सोयमानीत इति यमसामीप्यं नीतानां मारणीयादन्येषां जनानामुपागतौ सत्यामानायितो यः सोयं न भवति पुनरयं मर्त्यलोकं नेय इति एतत्सदृशमन्यमानयेति यमचित्रगुप्ताभ्यामुक्ते सति प्रत्यावृत्तौ भौतिकशरीरमध्ये लैङ्गिकशरीरे पुनः प्रविष्टे सति तद्वान्धवैरेतावत्पर्यन्तं किं जातम्, त्वं कुत्र गतः, किं वा तत्र दृष्टमित्यादि प्रश्ने कृते यमदूतैर्यमं प्रापितः, तेन च पुनरायुःशेषादत्र पातितोऽहम्, स्वर्गो नरकश्चैवंविध इति प्रकाशकश्रुतिस्मृतिप्रमाणेषु यथा स्वर्गादिरूपं श्रुतम् , तादृशस्यैव तस्य कथनात्संवदन्ती संवादं कुर्वतीं परलोकसंबन्धिनीमस्तित्वकथां कथं कुतो हेतोस्त्वं न श्रद्धत्से परलोकास्तित्वे प्रमाणरूपां न मन्यसे वद । न किंचिदविश्वासे कारणमस्ति । तस्मात्परलोकोस्त्येवेति भावः ॥

जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् ।
किमात्थ रे किमात्थेदमस्मदने निरर्गलम् ॥ ९२ ॥

 जज्वालेति ॥ अथ ज्वलनोऽग्निः क्रोधाज्जज्वाल । अमुं चार्वाकमाक्षिपन्परुषभाषणैरधिक्षिपन्नित्याचख्यावूचे च । इति किम्-रे चार्वाक नीच, त्वमस्माकं वैदिकानामने निरर्गलं निर्भयं यथा तथा इदं पूर्वोक्तप्रकारं किमात्थ किमात्थ किं ब्रूषे किं ब्रूष इति । ([१]अतः परं चेंद्वक्ष्यसि, तर्हि तव कण्ठोष्ठमेव कुण्ठयिष्यामीत्यर्थः।), क्रोधाविष्टस्य जातिरियम् । क्रोधावेशद्योतनार्थमेव वीप्सया पुनरुक्तिः ॥

 इदानीं 'नानाति नाति-' इत्यादेरुत्तरमाह-

महापराकिणः श्रौतधमैकबलजीविनः ।
क्षणाभक्षणमूलि स्मरन्विस्मयसे न किम् ॥ ९३ ॥


  1. अयं पाठः सर्वत्रोपलभ्यमानोपि 'तिष्ठ भोस्तिष्ठ-(९६)श्लोकव्याख्यायोग्योत्र प्रमादात्पतित इति भाति ।