पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४२
नैषधीयचरिते

 महेति ॥ हे क्षणं क्षणमात्रमभक्षणेनाभोजनेन मूर्छालातिविह्वल रे नास्तिक, द्वादशादिबहुदिवसोपवाससाध्यमहापराकाख्यव्रतवतस्तद्रतचारिणः श्रौतधर्मरूपेणैवैकेन बलेन जीविनः प्राणधारणशीलानेवंभूतान्मनुष्यान्स्मरंश्चिन्तयन्किं न विस्मयसे । एतावन्ति दिनान्येतेऽभोजनाः कथमासत इत्याश्चर्यं न प्राप्नोषि एतन्महच्चित्रम् । क्षणमात्रमप्यभोजने पीडायाः स्वेनैवानुभवे, मासोपवासादिकारिणां जीवितधारणस्य प्रत्यक्षदर्शने च, सत्यपि भवादृश एव मूर्खॉ न विस्मयत इत्यर्थः। तस्माच्चिरमभोजनेपि जीवितधारणसामर्थ्याद्धर्मोऽस्त्येवेति। एकादश्युपवासादिकं धर्ममन्वयव्यतिरेकाभ्यां जानीहीति भावः । पराकिणः शेषत्वाविवक्षायां द्वितीयाबहुवचनम्। शेषत्वविवक्षायाम् 'अधीगर्थ' इति षष्ठ्येकवचनं वा । मूर्छालोस्त्यर्थे सिध्मादिषु 'क्षुद्रजन्तूपतापाभ्यां चेष्यते' इति वचनादुपतापकारित्वाल्लच् । 'विस्मयसेऽपि न' इति च पाठः ॥

 इदानीं 'ग्रावोन्मजनवत्-"एकं संदिग्धयोस्तावत्-' इत्यादेरुत्तरमाह-

पुत्रेष्टिश्येनकारीरीमुखा दृष्टफला मखाः।
न वः किं धर्मसंदेहमन्देहजयभानवः ॥ ९४ ॥

 पुत्रेति ॥ भो नास्तिकाः, पुत्रप्राप्त्यर्थ विहितः पुत्रफलको यागः पुत्रेष्टिः, श्येनेनाभिचरन्यजेत' इति वेदवाक्यविहितः श्येनसाधनकोऽभिचारफलको यागः श्येनः, तथा'कारीरौं निर्वदृष्टिकामः' इति वंशाङ्कुरसाधनको वृष्टिफलको यागः कारीरीत्युच्यते, एते यागा मुखमादिर्येषां ते, तथा दृष्टं प्रत्यक्षानुभूयमानसुतसंभूतिवैरिमारणजलवर्षणादिरूपं फलं प्रयोजनं येषां ते मखा वो नास्तिकानां युष्माकं धर्मोऽस्ति नास्ति वेति धर्मसंबन्धी संदेहो वेदवाक्यविहितादृष्टफलकयागादिरूपो धर्मस्तत्संबन्धी वा, अढटफलकयागादिविधायकवेदवाक्यान्येव वा धर्महेतुत्वाद्धर्मस्तत्संबन्धी वा यः प्रामाण्याप्रामाण्यसंदेह एव मन्देहाः संध्याद्वये सूर्यग्रासार्थमुत्पद्यमानाः षष्टिसहस्रा(धिका): सार्धास्तिस्रः कोटयो राक्षसास्तेषां जये विनाशे भानवः सूर्यरूपा विनाशकाः किं न भवन्ति । एवं दृष्ट्वापि धर्म न मन्यसे चित्रमित्यर्थः । किं न अपितु भवन्त्येवेति वा । 'तिस्रः कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः । उदयन्तं सहस्रांशुमभियुध्यन्ति ते सदा । गायत्र्या चाभिमन्त्र्योर्ध्वं जलं त्रिः संध्ययोः क्षिपेत् । तेन शाम्यन्ति ते दैत्या वजीभूतेन वारिणा' । इत्यादिवचनप्रामाण्याद्गायत्र्याभिमन्त्रितजलप्रक्षेपेण तन्नाशपुरःसरमेव सूर्योदयात्सूर्य एव तान्विनाशयतीत्युच्यते । तथाच सूर्यो यथा तानाशयति, तथा मखैरपि भवदीयः संदेहो विनाश्य एवेति प्रामाणिकमेव सर्व जानीहि ॥

दण्डताण्डवनैः कुर्वन्स्फुलिङ्गालिङ्गितं नमः ।
निर्ममेथ गिरामीभिन्नमर्मेव धर्मराट् ॥ ९५॥

 दण्डेति ॥ अथाग्निवचनानन्तरं धर्मराड् यमः स्वायुधस्य दण्डस्य ताण्डवनैरितस्ततश्चालनैर्नभः स्फुलिङ्गालिङ्गितमग्निकणाकीर्णं कुर्वन्रचयन् चार्वाकवाक्शरैर्भिन्नमर्मेव विदारितजीवस्थान इवासहमानो गिरामूर्मीर्वाक्यपरम्परा निर्ममे ऊच इत्यर्थः । ऊर्मिपदेन वाचामप्रतिहतप्रसरत्वं सूचितम् । 'ऊर्मिर्वा स्त्रियाम्' इति स्त्रीलिङ्गोऽपि ॥