पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४३
सप्तदशः सर्गः

 तदेवाह-

तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादयम् ।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥ १६ ॥

 तिष्ठेति ॥ भो नास्तिक तिष्ठ तिष्ट क्षणं सहस्व सहस्व । धर्मदूषणाद्विरम विरमेति वा । अयमहमधिगोष्ठि गोष्ठ्यामिन्द्रादिसभायामपष्ट प्रतिकूलं पाठ्यं पठनार्हं वचनं पठतो भाषमाणस्य शठस्य वाक्छलमात्रनिष्ठस्य नास्तिकाधमस्य ते तव कण्ठोष्ठं कण्ठनालमोष्ठौ च हठावलात्कारेणेदानीमेव कुण्ठयामि वर्णोच्चारणाशक्तं करोमि । दण्डेन चूर्णयामीत्यर्थः । सर्वाणि विशेषणानि दण्ड्यत्वज्ञापने हेतवः । अथच-एवंविधस्य तेऽधिगोष्ठि कथामधिकृत्य वाचोयुक्तौ कण्ठोष्ठं कुण्ठयामि युक्त्या प्रतिहतत्वाद्वक्तुमसमर्थं करोमि । सर्वमपि भवच्छास्त्रं दूषयिष्यामीत्यर्थः । वाग्व्यापार प्रति कण्ठोष्ठस्यैव दण्डो युक्तः । अयमिति क्रोधाहंकाराविष्कारः । तिष्ठतिष्ठेति क्रोधातिशयद्योतनार्था पुनरुक्तिः । कण्ठोष्टं प्राण्यङ्गत्वादेकवत् । कुण्ठयामि, वर्तमानसामीप्ये भविष्यति लट् ॥

 इदानीं श्लोकत्रयेण परलोकं धर्मं च साधयन्, 'को हि वेद-' 'तर्काप्रतिष्ठया-' इत्यादेहत्तरमाह-

वेदैस्तद्वेषिभिस्तद्वत्स्थिरं मतशतैः कृतम् ।
परं कस्ते परं वाचा लोकं लोकायत त्यजेत् ॥ ९७ ॥

 वेदैरिति ॥ चतुभिर्ऋग्वेदादिवेदैर्यथा स्थिरीकृतम् , तद्वत्तस्य वेदस्य वेषश्छाया तद्युक्तैस्तदंशोपजीविभिर्वेदानुसारिभिर्मतानां शतैः स्मृतिपुराणादिभिर्वादिप्रतिवादिभेदैर्मीमांसाशास्त्रैश्च तथा स्थिरं कृतं निश्चयेन व्यवस्थापितं परं श्रेष्ठम्, अन्यं च स्वर्गादिलक्षणं लोकं हे लोकायत नास्तिकाधम । परं केवलं ते वाचा नियुक्तिकेन वचनमात्रेण कोपि विद्वांस्त्यजेत् । अपितु-न कोपि । किंतु सर्वैरपि तद्युक्तिभिः परलोकः स्वीकृत एवेत्यर्थः । तदस्तित्वसंदेहापादिनी 'को हि वेद-' इत्यादिश्रुतिस्त्वन्यपरेति भावः ॥

समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।
लोके प्रयासि पन्थानं परलोके न तं कुतः ॥ ९८ ॥

 समेति ॥ एकस्मिन्मार्गादावर्थे समज्ञानास्तुल्यमतयोऽल्पेऽल्पसंख्या भूयिष्ठा बहुतरसंख्याश्च पान्थास्तेषां वैमत्यं मार्गान्यत्वविरोधमेत्य प्राप्य ज्ञात्वा वा इह लोके यं पन्थानं त्वमेव प्रयासि परलोकेऽपि विषये तमेव तादृशमेव मार्गं कुतो हेतोर्न गच्छसीति प्रश्नः । अपितु तमेव गच्छेत्युपदेशो वा । यथा केनचित् 'वामो दक्षिणो वा काशीमार्गः' इति मध्येमार्गं पथिकेषु केषुचित्पृष्टेषु पञ्चषैर्वाममार्गे कथिते सति, पञ्चाशद्भिक्षिणमार्गे कथिते द्वैधे 'बहूनां वचनं ग्राह्यम्' इत्यादिन्यायात्कुशलेन पञ्चाशदुक्तमार्गेणैव