पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४४
नैषधीयचरिते

गम्यते । एवं परलोकेऽप्यल्पविमतिं निरस्य बह्वनुगत एव मार्गः किमिति नाश्रीयत इत्यर्थः । परलोकमार्गश्च लक्षणया धर्मः, तं कथं न मन्यसे । अपितु तमेवाङ्गीकुरु । परलोकसत्तानिश्चयमपि गन्तव्यग्रामवत्कुर्विति भावः । 'तर्काप्रतिष्ठया-' इत्यस्याप्येतदुत्तरं ज्ञेयम् ॥

 बहुसंमतिमेव दर्शयति-

स्वकन्यामन्यसात्कर्तुं विश्वानुमतिदृश्वनः ।
लोके परत्र लोकस्य कस्य न स्यादृढं मनः ॥ ९९ ॥

 स्वकन्यामिति ॥ स्वकन्यामात्मपुत्रीमन्यसात्कर्तुमन्यस्मै वरायाधीनां देयां कर्तुं विश्वेषां सर्वेषां श्रुतिस्मृतिपुराणादीनां लोकानां चानुमतिं दृष्टवतोऽनुभवतः, तथा कुर्वतश्च कस्य लोकस्य जनस्य परत्र लोके स्वर्गादौ मनो दृढं निःसंदेहं निश्चलं न स्यात् । अपितु सर्वस्यापि स्यादेव । न केवलमन्यस्यैव, किंतु चार्वाकस्य तवापीत्यर्थः। सर्वेऽपि परलोकबाधभिया स्वकन्यामन्यस्मै ददति । यदि परलोको नाभविष्यत्, तर्हि स्वपुत्रीमप्यन्यस्मै कथमदास्यत् । अयमाचारः सर्वेषां संमतः । सत्व त्वयाप्यन्यस्मै पुत्री दानादङ्गीकृत एव । अन्यथा स्वपुत्र्याः स्वेनैव ग्रहणमापद्येत तस्मादन्येषामनुमतिं गृहीत्वैव यथा कन्याऽन्यस्मै दीयते, तथा बहुसंमतिदर्शलतत्परलोकमप्यङ्गीकुर्विति भावः । अन्यसात् 'देये त्रा च' इति सातिः। दृश्वेति पूर्वव ॥

 श्लोकद्वयेन 'श्रुतिस्मृत्यर्थबोधेषु-' 'तर्काप्रतिष्ठया-' इत्यादेरुत्तरमाह-

कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
तदृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥ १०० ॥

 कस्मिन्निति ॥ धर्मपरलोकादिप्रतिपादनपराणां बहूनां मतानां मध्ये कस्मिन्नेकस्मिन्नपि मते सत्ये सत्यत्वेनाङ्गीकृते सति सर्वमतत्यजः सर्वमतत्यागिनः परस्परविरोधात्सर्वमतासत्यत्ववादिनो नास्तिका यूयं हता मारिताः । तत्रायमभिसंधिः-मतानामसत्यत्ववादिभिः किंचिन्मतं सत्यमङ्गीक्रियते न वा । चेदङ्गीक्रियते, तर्हि कस्यापिकन्यादानादिप्रतिपादकस्यान्यमतस्य स्वीयमतस्यैव वासत्यत्वाङ्गीकारात् 'सर्वमप्रमाणम्' इति सर्वासत्यत्ववादिनो व्याघातापसिद्धान्ताभ्यां दूषिता एवेति वैदिकसिद्धान्तो निर्दोष इत्यायातम् । न वेति पक्षे-नास्तिकमतस्याप्यसत्यत्वादसत्यभूतस्य दूषकत्वाभावानिर्दोषो वैदिकः पक्षः सिद्ध एवेत्यपि नास्तिका दूषिताः। निर्दोषत्वेपि वैदिकपक्षानङ्गीकारे स्वपक्षोपि तैर्नाङ्गीकार्य इति ज्ञेयम् । एवंच तस्यैकस्य मतस्य दृष्ट्या सत्यताज्ञानेनोभयवादिसिद्वतया पुत्रेष्ट्यादौ पुत्रजन्मादिफलसिद्धौ सत्यां यत्रक्कचित्फलव्यभिचारः, तत्र कर्मणो वैकल्याद्यर्थतामात्रं वैयर्थ्यमात्रं फलसाधनत्वराहित्यमात्रम् । तु पुनः (अधर्मः) प्राचीनपुत्रवियोगादिरनर्थो दुःखराशिधर्मजो न पुत्रेष्ट्यादिधर्मजन्यो न भवति । विपरीतं तु धर्मेण न जन्यते, किंतु प्राचीनदुष्कर्मनिमित्तमेव । केवलं तु काकतालीयन्यायेन तस्य पुत्रेष्ट्याद्यनन्तरभावित्वम् । नच तावतैव तत्कार्यत्वमतिव्याप्तेरित्यर्थ इत्यादि ज्ञातव्यम् । कस्मिन्नपि मातृगमनादिनिषेधे स्वकन्यादानादौ च विषये