पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४५
सप्तदशः सर्गः।

वैदिके मते सत्ये सति तस्मिन्नंशे सत्यत्वेऽङ्गीकृते सति सर्वमतमसंगतमिति वदन्तो नास्तिका हताः। मातृगमननिषेधादेशस्य भवद्भिरपि परिपालनादित्यर्थः । तथाच तदृष्ट्या कन्यादानमातृगमननिषेधरूपाणां सत्यानां विधिनिषेधांशानां दृष्टान्तेनान्यत्रांशे व्यर्थतामात्रं वचनमात्रेण व्यर्थमित्युच्यते । नतु धर्मजो वास्तवोऽनर्थः प्रयोजनाभावः । तदृष्टान्तेन व्यर्थतामात्रम्, अन्यत्राव्यर्थतैवेत्यलमतिप्रसङ्गेन ॥

 उपसंहरति-

क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा कचित् ।
स्थातव्यं श्रौत एव स्याड्वर्मे शेषेऽपि तत्कृतेः ॥ १०१ ॥

 कापीति ॥ सर्वैर्नास्तिकैरपि क्वापि कस्मिन्नप्यहिंसाकन्यादानादौ श्रौते वेदोक्त एव धर्मे स्थातव्यं वर्तितव्यम् । कुतः-अवैमत्यात् । सर्वेषामिति शेषः । श्रौतानां बौद्धमाध्यमिकादीनामपि संप्रतिपत्तेः । अहिंसादेस्तैरप्यनिषिद्धत्वादङ्गीकृतत्वाच्चेत्यर्थः। स्थातव्यमेवेति वा । तथा-क्वचिद्वर्णाश्रमाधिकारविहितेऽन्यथाकरणे निषिद्धाचरणे च पातित्यदोषाद्विहिताकरणनिषिद्धाचरणप्रत्यवायभयादपि श्रौत एव धर्म स्थातव्यम् । अन्यथा वैमत्येपि श्रौत एव क्वचित्कस्मिंश्चिद्धर्मे स्थातव्यम् । कुतः-पातित्यात् । यत्र तु श्रौते धर्मे तेषां विप्रतिपत्तिस्तदनङ्गीकारेपि प्रत्यवायः स्यादित्यङ्गीकार्य एवेत्यर्थ इति वा। एवं शेषेपि नित्यनैमित्तिकाभ्यामतिरिक्त काम्ये ज्योतिष्टोमादावपि स्थातव्यम् । कुतः-तत्कृतेस्तस्य वेदस्य कृतेः करणात् । वेदविहितत्वाविशेषादित्यर्थः। यद्वा-तत्कृतेवैदमूलत्वाच्छेषे स्मार्तेपि धर्मे स्थातव्यम् । सदाचारानुमितस्मृत्या श्रुतेरनुमानान्स्मार्तधर्मा अपि वेदमूला इति तेप्यङ्गीकर्तव्या इत्यर्थः । एतेन 'जनेन जानता-' इति 'एकस्य विश्वपापेन-' 'स्वं च ब्रह्म च-' इत्यादेः सर्वस्याप्युत्तरं दत्तम् । धातुवादादिकं प्रामाणिकमेव, असिद्धिस्तु साधनवैगुण्यादिति समर्थितमिति ज्ञेयम् । 'तत्कृते' इति पाठे हेतुगर्भविशेषणम् । तस्मान्न मतानामप्रामाण्यम् । श्रुतिस्मृत्योश्चैकमत्यमप्यविरुद्धमिति श्लोकद्वयतात्पर्यार्थः । अहिंसादयः स्मृत्युक्ताः सर्वसाधारणा धर्माः, तेषु क्वापि श्रौते च धर्मे स्थातव्यम् । पातित्यादित्युभयत्रापि हेतुः । सर्वेषामनुमते विहिते चेन्न स्थीयते तर्हि 'विहितस्याननुष्ठानात्' इति स्मृतेः पातित्यम् । सर्वेषां विमते निषिद्धे चेत्स्थीयते तथापि 'निन्दितस्य च सेवनात्' इति स्मृतेः पातित्यमित्यर्थः । तथाच विहितानां केषांचिद्भवद्भिरप्यनुष्ठानात्, निषिद्धानां केषांचिद्भवद्भिरपि वर्जनात्तदृष्टान्तेनान्येष्वपि विधिनिषेधांशेषु तत्कृतेः श्रौतत्वाविशेषादेव हेतोः स्थातव्यम् । तेपि प्रामाणिकत्वेन स्वीकार्या इत्यादि ज्ञातव्यम् ॥

बभाण वरुणः क्रोधादरुणः करुणोज्झितम् ।
किं न प्रचण्डात्पाखण्डपाश पाशाद्बिभेषि नः ॥ १०२ ॥

 बभाणेति ॥ क्रोधादरुणो रक्तकायकान्तिर्वरुणः करुणयोज्झितं वचो नितरां परुषं यथातथा बभाण । हे पाखण्डपाश नास्तिकाधम, त्वं नोऽस्माकं प्रचण्डाहुःसहत्पाशान्न बिभेषि किम् । कुत्सायां 'याप्ये पाशप्' इति पाशप्प्रत्ययः॥