पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४७
सप्तदशः सर्गः।


ततज्जनकृतावेशान्गयाश्राद्धादियाचिनः ।
भूताननुभवन्तोपि कथं श्रद्धत्थ न श्रुतीः ॥ १०५ ॥

 तदिति ॥ तेषु तेषु जनेषु कृतावेशान्कृतसंचारान्, तथा-गयाश्राद्धादियाचिनो गयापिण्डदानादिपुण्ये याचतः प्राप्तप्रेतभावान्भूतान्प्राणिनोऽनुभवन्तोऽपि पश्यन्तोऽपि यूयं श्रुतीः कथं न श्रद्धत्थ सत्यत्वेन मन्यध्व इति । पौनरुक्त्यं न शङ्कनीयम्, भिन्नवक्तृत्वात् । एवमुत्तरत्रापि ज्ञेयम् ॥

नामभ्रमाद्यमं नीतानथ स्वतनुमागतान् ।
संवादवादिनो जीवान्वीक्ष्य मा त्यजत श्रुतीः ॥ १०६ ॥

 नामेति ॥ नामभ्रमाद्यमदूतैर्यमं नीतान्प्रापितानथ मुक्तत्वात्प्रत्यावृत्त्य स्वतनुमागतान्प्राप्तान्संवादं 'चन्द्रः क्षयी-' इत्यादिवेदसंवादं वदन्त्येवंशीलाञ्जीवान्वीक्ष्य श्रुतीर्वेदान्मा त्यजताप्रामाणिकान्मा ब्रूत । एवं वेदप्रामाण्योपसंहारात्स्मृत्यादेरपि वेदमूलस्वात्तदुक्तसर्वधर्माणां प्रामाण्यं व्यवस्थापितम् ॥

संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्हलाद्वलन् ।
[१] मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् ॥ १०७ ॥

 संरम्भैरिति ॥अथ देववचनानन्तरं जम्भजैत्रःशक्र आदिर्यस्य इन्द्रानलादीनां संरम्भैर्भूभङ्गाद्याकारविकारीर्भीतेन कलिना पुरश्चलितुं स्तभ्यमानान्निषिध्यमानानिन्द्रादिसंरम्भान्दृष्ट्वा भयात्तत्संमुखं पदमपि चलितुमशक्ताद्वलात्कलिसैन्याद्वलन्पृथग्भवन्किचि. द्धाष्टर्यमवलम्ब्य द्वित्राणि पदानि संमुखमागच्छन्दीनत्वद्योतनपुरःसरं शक्रादिनमस्कारार्थं मूर्ध्नि बद्धाञ्जलिः कश्चिदज्ञातनामा पापरूपत्वेनाज्ञातनामा' वा चार्वाको देवानेवं वक्ष्यमाणप्रकारेण ऊचे॥

नापराधी पराधीनो जनोऽयं नाकनायकाः।
कालस्याहं कलेर्बन्दी तच्चाटुचटुलाननः ॥ १० ॥

 नेति ॥ हे नाकनायका इन्द्रादयः, अयं मल्लक्षणोजनोऽपराधी न। यतः- पराधीनः । तदेवाह-कलेः कलिनाम्नः कालस्याहं बन्दी स्तुतिपाठकः । अत एव तस्य चाटुनि प्रियवचनविषये चटुलं प्रियवादि वावदूकं वाननं यस्यैवंभूतः। अथच-कालस्य कृतान्तरूपस्य । बन्दिनी हि यमाश्रयन्ति तत्प्रियं वदन्ति, न च दण्डार्हाः। तस्मादेतत्प्रियं वेदादिदूषणं मया कृतम् । यदि न करोमि तर्ह्ययं दण्डयिष्यतीति परप्रयुक्तत्वान्नाहं दण्डयः श्रीमद्भिरिति॥

इति तस्मिन्वदत्येव देवाः स्यन्दनमन्दिरम् ।
कलिमाकलयांचकुर्द्वापरं चापरं पुरः॥ १०९ ॥


  1. 'मूर्ध्नि' इति क्वाचित्कः पाठः इति सुखावबोधा।