पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४८
नैषधीयचरिते


 इतीति ॥ देवास्तस्मिंश्चार्वाके इति पूर्वोक्तप्रकारेण वदति भाषमाणे सत्येव स्यन्दनमन्दिरं रथस्थं कलिम्, अपरं द्वितीयं द्वापरं च पुरोऽग्र आकलयांचक्रुर्ददृशुः ॥

संददर्शोन्नमद्रावः श्रीबहुत्वकृताद्भुतान् ।
तत्तत्पापपरीतस्तान्नाकीयान्नारकीव सः ॥ ११०॥

 समिति ॥ तैस्तैः प्रसिद्धैब्रह्महत्यादिभिर्मूतैः पापैः, तत्कारिभिः पुरुषैर्वा परीतः समन्ताव्द्याप्तः, तथा- उन्नमन्ती दर्शनार्थमुच्चा ग्रीवा यस्यैवंभूतः स कलिः श्रीबहुत्वेन कायकान्तिबाहुल्येन संपद्बाहुल्येन वा कृताद्भुतान्कृताश्चर्यान्नाकीयान्स्वर्गहितान्स्वर्गभवान्वा तानिन्द्रादीन्संददर्श । क इव-नारकीव । यथा ब्रह्महत्यादिकारी आकण्ठं नरके मग्न ऊर्ध्वग्रीवो नरकस्थः पुरुष इव । पापकारित्वादहमेवंरूपः, पुण्यकृत्त्वाच्चैते दीप्रस्वरूपा इति ज्ञातवांश्च । नरकस्थोपि देवकायकान्तिदर्शनाजायमानसुखोऽनुष्ठित पापकृतपश्चात्तापः सुरानार्ततया पश्यतीत्युपमा । 'उन्नतग्रीवः' इत्यपि पाठः । नाकीयानिति हितार्थे 'तस्मै हितम्' इति, वृद्धत्वाद्भवार्थे 'वृद्धाच्छः' इति वा छः । नारकी, नारकशब्दात् 'अत इनिः' ॥

गुरुरीढावलीढः प्रागभून्नमितमस्तकः ।
स त्रिशङ्कुरिवाक्रान्ततेजसेव बिडौजसः ॥१११ ॥

 गुर्विति ॥ प्राग्दर्शनात्पूर्वं इन्द्रादयः के नाम वराका इत्यादिरूपया गुर्व्या महत्या रीढयावज्ञयावलीढो ब्याप्तस्तेषु कृतावज्ञोपि दर्शनानन्तरं बिडोजस इन्द्रस्य तेजसा आक्रान्तः पराभूतस्तिरस्कृततेजस्कः सन् अवज्ञां त्यक्त्वा स कलिरनमन्नपि बलात्स्वेनैव शक्रतेजसैव वा नमितो नम्रीकृतो मस्तको यस्यैवंभूतोऽभूत् । इन्द्रादीन्नमश्चकारेत्यर्थः । क इव-त्रिशङ्कुनामा सूर्यवंश्यो नृप इव । स हि स्वयाजने प्रार्थितेन पुरोधसा वसिष्ठेन निरस्तो गुरोर्वसिष्ठस्यावज्ञया व्याप्तस्तस्मिन्कृतावशः सन्नभिमानाद्विश्वामित्रेण सार्वकामिकं ऋतुं याजितस्तत्प्रभावात्सशरीर एव स्वर्गं गच्छन्निन्द्रेऽपि कृतावज्ञः संस्तत्तेजसा पराभूतः स्वर्गाद्भ्रंशित इत्येवं नमितमस्तकोऽभूदिति पुराणेतिहासः। 'रीढावमाननावज्ञा-' इत्यमरः॥

विमुखान्द्रष्टुमप्येनं जनंगम इव द्विजान् ।
एष मत्तः सहेलं तानुपेत्य समभाषत ॥ ११२ ॥

 विमुखानिति ॥ मत्तः सगर्वोऽयं कलिः सहेलं सविलासमुपेत्य समीपमागत्य एवं तान्देवान्समभाषत । किंभूतान्–एनं कलिं द्रष्टुमपि न केवलं भाषितुं स्प्रष्टुं किंतु वीक्षितुमपि विमुखाननर्हान्सावज्ञान् । कः कानिव-मत्तो निरर्गलो मदिरामत्तो वा जनंगमश्चण्डालो द्विजानिव । किंभूतान्-एनं चण्डालं द्रष्टुमप्यनर्हान् । 'चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः' इत्यमरः । 'गमश्च' इति खच्, स्त्रित्त्वान्मुम् ॥