पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४१
सप्तदशः सर्गः ।

स्वस्ति वास्तोष्पते तुभ्यं शिखिन्नस्ति न खिन्नता।
सखे काल सुखेनासि पाशहस्त मुदस्तव ॥ ११३ ॥

 स्वस्तीति ॥ हे वास्तोष्पते इन्द्र, ते तुभ्यं स्वस्ति क्षेममस्ति कच्चित् । तथा हे शिखिन्नग्ने, तव खिन्नता चित्तक्लेशो नास्ति कञ्चित् । हे सखे काल यम, सुखेनासि किम्। हे पाशहस्त वरुण, तव मुदः सन्ति कच्चित् । गृहमात्रस्याधिपत्यादसामर्थ्यं, वृथैव ज्वालाजटिलत्वम्, कुत्सितरूपत्वम् , आयुधधारणवैयर्थ्यं च संबुद्धिभिः सूचितम् । उत्तमानां कुशलप्रश्नस्तैः सह साम्यं, तेभ्योऽधिकत्वं सूचयति । इन्द्राय स्वस्तिप्रयोगः स्वामिभावं, ब्राह्मण्यं वा कलेर्द्योतयति । वर्णसाम्येन यमे सखिशब्दप्रयोगः । अयमेव च गर्वोऽवज्ञा चेति ज्ञेयम् । 'स्वस्त्याशीक्षेमपुण्यादौ' इत्यमरः। 'वास्तोष्पतिगृहमेधाच्छ च' इति लिङ्गादास्तोष्पतिशब्दः साधुः। तुभ्यमिति 'नमःस्वस्ति-' इति चतुर्थी। इतरत्र तवेति संबन्धनीयम् ॥

स्वयंवरमहे भैमीवरणाय त्वरामहे ।
तदस्माननुमन्यध्वमध्वने तत्र धाविने ॥ ११४ ॥

 स्वयमिति ॥ हे देवाः, वयं स्वयंवररूपे मह उत्सवे भैमीवरणाय यस्मात्त्वरामहे सवेगाः स्म तत्तस्मात्तत्र धाविने स्वयंवरस्थानं प्रति ऋजुगामिनेऽ ऽध्वनेडस्माननुमन्यध्वमाज्ञापयत । त्वरावशादन्या गोष्टी न क्रियते, आज्ञैव दीयतामित्यर्थः । अध्वने, तादथ्ये चतुर्थी॥

तेऽवज्ञाय तमस्योच्चैरहंकारमकारणम् ।
ऊचिरेतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः ॥ ११५ ॥

 त इति ॥ ते देवाः पूर्वोक्तमकारणं निहेतुकमुच्चैरतिशायितमस्य कलेरहंकारं दर्पम- वज्ञाय मिथोऽन्योन्यं दृष्टमुखाः सन्तः मूर्खोऽयं स्वयंवरवार्तां करोतीति स्मित्वा हास्यं कृत्वातिचिरेण पापीयसानेन सह कथं वा वक्तव्यमिति बुद्ध्या भूयांसं कालं विलम्ब्य एनं कलिं प्रत्यूचिरे वक्ष्यमाणं बभाषिरे ॥

पुनर्वक्ष्यसि मामैवं कथमुद्वक्ष्यसे तु सः ।
सृष्टवान्परमेष्ठी यं नैष्ठिकब्रह्मचारिणम् ॥ ११६ ॥

 पुनरिति ॥ हे कले, त्वं स्वयंवरार्थं गमिष्यामीत्येकवारमशानाद्यदुक्तम्, तदिदमतः परं पुनर्मा मा एवं वक्ष्यसि मा मा वोचः। यस्मात्परमेष्ठी यं त्वामामरणं गुरुकुलनिवासिनं नैष्ठिकब्रह्मचारिणं सृष्टवान् । स तु पुनस्त्वं कथमुद्रक्ष्यसे परिणेष्यसि । कृतयुगादयो निष्कलत्रा एव सृष्टाः । तस्मात्तव स्वयंवरवार्तानुचिता, अवकीर्णित्वापातात् । तस्मादेवं पुनर्मा स्म वोच इत्यर्थः । पापरूपं प्रत्युपहासवचनमेतत् । माशब्दस्य निरनु-