पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५४
नैषधीयचरिते

 दारुण इति ॥ अयं शिखी वह्निर्दारुणः कूटं काष्ठराशिमाश्रित्याग्निसाक्षिके विवाहे साक्षीभवन्नपि तत्र प्रकाशमानोपि तयोर्भैमीनलयोः तस्य, तस्या वा, उद्वाहे विवाहे विषये कूटसाक्षिणोऽलीकसाक्षिणः क्रियां सत्यापलापलक्षणां किं नावहत् । अपितु- एतदप्यनुचितं कृतम् । कूटसाक्षी तु परकीयं वस्त्वन्यस्मै दापयति । तदनेन प्रायशस्तत्र न स्थितमित्यग्निसाक्षिको विवाह एव न भवतीति । भैमी नलेन नोढेति भैमी नलादन्यस्मै भवत्स्वेव मध्ये कस्मैचित्किमिति न दापितेत्यर्थः । अथ च-दारुणः पापकारित्वादतिक्रूरः पुरुषः कपटमाश्रित्य व्यवहारे साक्षीभवन्नपि तस्य चित्ते धृतस्य कार्यस्योद्वाहे निर्वाहे कूटसाक्षित्वं धत्ते । अत्र तु नेत्याश्चर्यम् ॥

अहो महःसहायाना संभूता भवतामपि ।
क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः ॥ १३०॥

 अहो इति ॥ भो देवाः, महःसहायानां तेजस्विनां दिव्यमूर्तीनां भवतामपि क्षमैवास्मै कलङ्काय इन्द्रादिषु सत्स्वपि भैमी नलं वृतवतीत्ययशसे । अथच-नलकृतानादररूपाय । अथच-लज्जावशादन्यवदनवीक्षणाशक्तिमुखमालिन्यरूपाय कलङ्काय संभूता। अहो महदाश्चर्यम् । गुणभूता क्षमा दोषाय जातेत्यर्थः । महःसहायस्य तेजस्विनोऽमृतपतेर्देवस्य दीप्यमानस्य चन्द्रस्येव । यथा चन्द्रस्य क्षमा भूमिः कलङ्काय जाता। भवतामपीत्यपिशब्देन यत्र कलङ्कशङ्कापि नास्तीति सूचितम् । 'भूश्चन्द्रकलङ्कः' इति ज्योतिर्विदः । महःसहायानामपीति वा । चन्द्रस्य यथा तथा भवतामपीति समुच्च्यार्थो वा । क्षमां परित्यज्य भवद्भिरन्यतरस्य चेद्दण्डो करिष्यत, तर्ह्ययशो नाभविष्यदिति भावः॥

सा वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषः स्थ किम् ।
ब्रूतागःसद्मनस्तस्माच्छद्मनाद्याच्छिनद्मि ताम् ॥ १३१॥

 सेति ॥ हे देवाः, सा भैमी यं वव्रे तं नलमुत्सृज्य यूयं मह्यं कलये किमितीर्ष्याजुषोऽक्षान्तिपराः स्थ भवथ । अपराधिनस्तस्यापकर्तुमशक्ताः सन्तोऽनपराधाय मह्यं किमितीर्ष्यायुक्ता स्थेत्युपहासः । तस्माद्यूयं ब्रूत कथयत-अहं तस्मान्नलात्सकाशाच्छद्मना कपटेन कथमपि वञ्चयित्वा तामाच्छिनद्मि आहरामि । यतः-आगसो भवदनादररूपापराधस्य सद्माश्रयभूतः, तस्मादविलम्बनैव तामाहरामि गच्छेति मामनुमन्यध्वमित्यर्थः । अन्येनापराधे कृतेऽन्यस्मै द्रुह्यत इति युक्तमिति लोकरीत्योपहासः। ब्रूत नो युष्माकमस्माकं चागःसद्मानादरणादपराधिनीं तां नलादानयामीति वा । मह्यं, 'कुध- द्रुह-' इति चतुर्थी । आच्छिनद्मि, वर्तमानसामीप्ये लट् ॥

यतध्वं सहकर्तुं मां पाञ्चाली पाण्डवैरिव ।
सापि पञ्चभिरस्माभिः संविभज्यैव भुज्यताम् ॥ १३२ ॥