पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५५
सप्तदशः सर्गः।

 यतध्वमिति ॥ यूयं मां सहकर्तुं सहकारिणं कर्तुं यतध्वं यत्नं कुरुत । भैमीमानेतुमहं गच्छामि, यूयं मम सहायार्थमागच्छतेत्यर्थः । तव साहाय्यकेऽस्माकं किं फलमित्यत आह-अस्माभिरिन्द्राग्नियमवरुणैर्मया सह पञ्चभिः सा भैम्यपि संविभज्य संभोगकालं समानभागमेव कृत्वैवोपभुज्यताम् । तथाच भवतामपि फलमस्तीति भावः । कैः केव-पञ्चभिः पाण्डवैः पाञ्चाली द्रौपदीव । पाञ्चालीदृष्टान्तेनैकस्याः पतिव्रताया बहुभिरुपभोगो न दृष्टचर इत्यलौकिकत्वं परिहृतम् । पाण्डवानामग्रभावित्वात्तदानीं दृष्टान्तत्वेन कलेर्योगित्वाद्भविष्यदर्थज्ञानसामर्थ्याद्वचनं युक्तम् । जगत्प्रवाहानादितया पाण्डवपाञ्चालीवृत्तान्तानामतीतत्वात्तदुदाहरणीकृत्यैतदुक्तमिति वा । पाञ्चाली । जनपदवाचिनः क्षत्रियाभिधायिनः पञ्चालशब्दात् 'जनपदशब्दात्-' इत्यपत्येऽञ् ॥

अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् ।
चक्रे गिरा शराघातं भारती सारतीव्रया ॥ १३३ ॥

 अथेति ॥ अथ पूर्वोक्तकलिवचनाकर्णनानन्तरं तामुक्तप्रकारां मुखरस्यानुचितभाषणशीलस्य कलेर्मूर्खतां सोढुं क्षन्तुमपरिवृढाऽसमर्था भारती सरस्वती अर्थगाम्भीर्यात्सारया श्रेष्ठया, परुषत्वाच्च तीव्रया दुःसहया गिरा कलेः शराघातं बाणव्यधमिव चक्रे । बाणवत्पीडाकरं परुषं वचनमूच इत्यर्थः । 'भारतीव्रया' इति पाठे-अर्थगाम्भीर्येण दुःसहया॥

कीर्तिं[१] भैमीं वरं चास्मै दातुमेवागमन्नमी।
[२]न लीढे धीरवैदग्धीं धीरगम्भीरगा[३] हिनी ॥ १३४ ॥

 कीर्तिमिति ॥ हे कले, अमी देवा अस्मै नलाय भैमीं दातुमेव, तथा- 'भैमीं कामयमानोपीन्द्राद्यर्थं भैम्या एव दूत्यं कृतवान्, एवंविधोऽतिधीरः कोपि नास्तीति कीर्तिं यशः, तथा–भैमीं च प्रत्यक्षलभ्याम्, तथा - उक्तप्रकारान्वरांश्च अस्मै नलाय दातुमेवागमन्स्वयंवरं गतवन्तः। नतु भैमीं वरीतुमिति त्वं नो वेत्सीति शेषः । देवा हि केनापि प्रकारेण परीक्ष्य परितुष्टाः सन्तो वरं ददते । कुतोऽहं न वेद्मीत्यत आह-यस्मादगम्भीरस्योत्तानस्यार्थस्य गाहिनी स्पर्शिनी गम्भीरार्थग्राहिणी न भवतीत्यर्थः । एवंभूता मूढानां बुद्धिर्धीराणां महाशयानां वैदग्धीं चातुरीं न लीढे न वेत्तीत्यर्थः । त्वं तु मूर्खत्वादेतेषामभिप्रायमज्ञात्वोपहसितवानिति भावः। अधीरेत्यकारप्रश्लेषेण संबोध्य, अगम्भीरगाहिनी ते धीः वैदग्धीम्। अर्थादेतेषां न लीढ इति वा । हे अधीर्बुद्धिरहित मन्दबुद्धे कले, अगम्भीरगाहिनी ते धीरवैदग्धीमचातुर्यं नास्वादयति । अपितु-प्राप्नोत्येवेति काक्वा वा व्याख्येयम् । लीढे, लिहेःस्वरितेत्त्वात्तङ् । क्वचित् 'लेढि' इति पाठः॥


  1. 'शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले । कलेर्गतेषु वर्षेषु प्राभवन् कुरुपाण्डवाः ॥' इति राजतरङ्गिणीतः
    पाण्डवानां कल्यन्तर्गतत्वेनेति बोध्यम् ।
  2. 'नालीढ' इत्यपि पाठः-इति सुखावबोधा ।'
  3. 'गाहिनीम्' इति पाठे
    'विरुद्धलक्षणया धीरेति संबोध्य गम्भीरार्थस्य गाहिनीं धीरवैदग्धीं न लीढे इति व्याख्येयम्' इति सुखाववोधा।