पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५७
सप्तदशः सर्गः।

 नैषधेनेति ॥ चण्डतया भूभैमीपरित्याजनद्वारातिपीडाकारित्वान्निर्दयत्वेन मण्डितौजसोऽलंकृततेजसो मे मम नैषधेन सह विरोधं जगन्ति त्रयोऽपि लोका गायन्तु कीर्तयन्तु । कस्य किमिव-चण्डतामण्डितौजसो रवेः सूर्यस्य कैरवैः कुमुदैः सह वैरवद्विरोधमिव । हन्त खेदे । अयोग्येन हीनतेजसा नलेन सह विरोधारम्भात्त्रैलोक्ये यद्यप्ययशो भविष्यति, तथापि किं कुर्म इति खेदः[१] । अयशःसमुदयेऽपि सूर्येण कैरववैरवन्मयापि नलवैरं करिष्यत एवेति भावः। एतेन दर्पः सूचितः॥

द्वापरः साधुकारेण तद्विकारमदीदिपत्।
प्रणीय श्रवणे पाणिमवोचन्नमुचे रिपुः ॥ १४० ॥

 द्वापर इति ॥ द्वापरस्तृतीययुगरूपः सहचरस्तस्य कलेर्विकारं नलेन सह विरोधरूपं साधुकारेण साध्वितिशब्दोच्चारणेनादीदिपत्साधु, उचितमेतत्त्वया विचारितमित्युद्दीपयामास । तस्य प्रोत्साहनं चकारेत्यर्थः । अथ नमुचेर्दैत्यस्य रिपुरिन्द्रो युष्माभिः साहाय्यं कर्तव्यमिति कलिनोक्तस्य वचस उत्तरत्वेनैतद्वापारमध्येऽस्माभिर्न स्थीयत इति लौलिकाभिनयव्यञ्जनवशाच्छ्रवणे पाणिं प्रणीय यत्त्वया विचारितं तदस्माभिः श्रोतुमप्यनर्हमिति वा पाणिभ्यां कर्णौ पिधाय कलिमवोचत् । अदीदिपत्, दीपेर्ण्यन्ताच्चङि 'भ्राजभासभाषदीप-' इत्यादिनोपधाह्रस्वविकल्पः॥

विस्मेयमतिरस्मासु साधु वैलक्ष्यमीक्षसे ।
यद्दत्तेऽल्पमनल्पाय तद्दत्ते ह्रियमात्मनः॥१४१ ॥

 विस्मेयेति ॥ हे कले, त्वं विस्मेयाश्चर्यहेतुर्मतिर्यस्यैवंविधोऽसि । यस्मात्त्वमस्मासु वर्तमानं वैलक्ष्यं सलज्जत्वं साधु सम्यक्प्रकारेणेक्षसे जानासि । पराशयवेदितया तव तीक्ष्णबुद्धित्वाद्वयं विस्मिताः स्मेत्युपहासः । साधूचितं यद्वैलक्ष्यं तद्यस्मादीक्षस इति वा। कथं भवत्सु वैलक्ष्यस्यौचित्यमित्याशङ्क्य समर्थयते - यः पुरुषोऽनल्पाय महते पुरुषायाल्पमतितुच्छं वस्तु दत्त इति यत्, , स पुरुषस्तदल्पवस्तुदानं कर्मात्मने स्वस्सै ह्रियमेव दत्ते । महते यदल्पं दीयते तदल्पदानमेव कर्तृ दात्रे पुरुषाय लज्जामेव दत्ते । तेन तस्य लज्जैव भवतीत्यर्थ इति वा । तथाच महते नलायास्माभिरल्पमेव दत्तमिति लज्जा युक्तैवेति भावः । अतितरां नलमाहात्म्यं सूचितम् । एतेन 'दूरान्नः प्रेक्ष्य'-इत्यस्योत्तरम् । यद्यदि, तत्तर्हीति वा योज्यम् । यद्वा-अनल्पाय न विद्यतेऽल्पो यस्माद् । अतिहीनायेत्यर्थः । यदस्मदादिरल्पं 'कस्कोयं धर्ममर्माणि कृन्तति' इत्याद्युपालम्भवचनं दत्ते करोतीति तत्स्वस्मै ह्रियमेव दत्ते । अधमस्य महोपालम्भयोग्यस्य तवाल्प एवोपालम्भः कृत इति विषादादस्माकं वैलक्ष्यं युक्तमेवेति व्याख्येयम् । अधमायाल्पमप्युपालम्भादि यद्दत्ते तत्स्वस्मै ह्रियं दत्ते । अधमेन सह संभाषणनिषेधात्तस्योपालम्भोपि न कार्यः । स त्वस्माभिः कृतः । तथाच पापरूपेण भवता सह संभाषणमस्माभिरनुचितं कृतमिति विषादादस्मासु वैलक्ष्यं युक्तमेवेति वा । इयमपि वक्रोक्तिः॥


  1. 'हन्त हर्षे । आत्मनः सकाशादधिकेन नैषधेन विरोधाल्लोके मम यशो भावीति हर्षः-'इति सुखावबोधा