पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५९
सप्तदशः सर्गः।


 नेति ॥ वयं तस्मिन्क्षमाभृति राज्ञि नले कलेस्तुर्ययुगस्य तवावकाशं प्रवेशावसरं न पश्यामः संभावयामः । तथा भवन्मित्रस्य द्वापरस्य चोदयं नलपराभवनसामर्थ्यं न संभावयामः । यतः-नितरां चिता अर्जिता अखिला धर्मा येन । श्रौतस्मार्तधर्मानुष्ठातरीत्युभयत्र हेतुः। तस्य धर्ममयत्वात् , युवयोः पापरूपत्वात्तत्रावकाशलेशोपि न संभाव्यत इत्यर्थः । यद्यपि देवा नलपराभवस्य भविष्यत्तां जानन्ति, तथाप्युत्साहभङ्गद्वारा कलिनिषेध एव तात्पर्यावकाशं न पश्याम इत्यूचुः । यद्वा-पश्याम इति वर्तमानसामीप्ये भविष्यति लट्प्रयोगात्प्रस्तुतमवकाशो नास्ति, विलम्बेन भविष्यतीति सूचितमिति ज्ञेयम् । अथच-यथासंख्येन तितिक्षाशीले कलहावकाशो न, निश्चितसकलधर्मरहस्ये च संदेहस्योदयो न भवतीति युक्तम् ॥

 भैम्यपि न बाध्येत्याह-

साविनीततमा भैमी व्यर्थानर्थग्रहैरहो।
कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव ॥१४५॥

 सेति ॥ पातिव्रत्यादिधर्मनिष्ठत्वाद्विनीततमा सा भैमी व्यर्थो निर्हेतुको वैराचरणलक्षणोऽनर्थस्तत्र ग्रहोऽभिनिवेशो येषां तैर्भवद्विधैः कथमिव बाध्या पीडनीया । अपितु- अनुचितमेतत् । अहो कष्टं, संबुद्धिर्वा, आश्चर्ये वा। कैः केव-विशिष्टैर्भ्रमैर्विपर्ययज्ञानैर्विनीतं सुतरामपाकृतं तमोऽज्ञानं ययैवंभूता भ्रान्तिज्ञानविरोधिनी प्रमितिः सम्यगनुभूतिस्तात्त्विका रजतादिधीरिव । कथं बाध्येत्यर्थः । किंभूतैर्विभ्रमैः-व्यर्थो निष्फलोऽनर्थस्य शुक्तिरजतादेर्ग्रहो ज्ञानं येषां तैः। 'अविनीततम आः' इति पदच्छेदः । आः कोपे नितरामविनीत अधम कले इति वा॥

 उक्तिविशेषेण षड्भिः श्लोकैः पुनरपि तौ न बाध्यावित्याह--

तं नासत्ययुगं तां वा त्रेता स्पर्धितुमर्हति ।
एकप्रकाशधर्माणं न कलिद्वापरौ युवाम् ॥ १४६ ॥

 तमिति ॥ न असत्यं नासत्यं किं तु सत्यमेव युगं सत्ययुगम् । कृतयुगमिति यावत् । तत्तं नलं, तां भैमीं वा स्पर्धितुं तुलयितुमर्हति । तथा-त्रेतायुगमपि स्पर्धितुमर्हति । न तु जेतुमित्यर्थः । यथासंख्येन वा योज्यम् । यस्मादेको मुख्यः स चासौ प्रकाशधर्मा च तम् , तां वा । प्रकाशः प्रसिद्धो धर्मो यस्य यस्याश्च । पश्चादेकशब्देन कर्मधारयः । लोकत्रयस्त्रीपुंसमध्ये तावेव धर्मप्रधानौ । यतः, तस्मात्सत्ययुगस्यापि चतुश्चरणधर्मत्वादेकप्रकाशधर्मत्वात्सत्ययुगं स्पर्धितुमर्हति । त्रेतायास्तु त्रिचरणधर्मत्वेपि कलिद्वापरापेक्षया धर्मबाहुल्यात्कृतयुगसाधर्म्यादेकप्रकाशधर्मत्वसंभवात्सापि स्पर्धितुमर्हतीत्यर्थः। कलिद्वापरौ युगे युवां पुनस्तौ स्पर्धितुं नार्हथ इति विभक्तिविपरिणामः कार्यः । तयोर्धर्मैकप्रधानत्वात्, युवयोश्चाधर्मबाहुल्याद्युवां तौ तुलयितुमप्यसमर्थौ, किं पुनर्जेतुमित्यर्थः । आ सामस्त्येन सत्यं यत्र तदासत्यम्, तच्च तद्युगं च, चतुश्चरणधर्मयुक्तं कृतयुगं, तथा-त्रेतायुगं तौ स्पर्धितुं नार्हतः अपित्वर्हत एवेति काकुः । उक्तादेव हेतोर्नासत्ययुगं कृतयुगं तौ स्पर्धितुमर्हति तत्रैव तयोः सत्त्वाद्धर्मप्रधानत्वाच्च । त्रेतायुगं च नार्हति, त्रयाणामप्यधर्मसंस्पर्शात्, तत्र तयोरसत्त्वाच्चेति वा । कलिद्वापरयोः पुरुषत्वान्न-